पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२७४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्याये तस्मितस्मिन्ननौ देवा रेतो जुह्वति तस्या आहुतेर्भः संभवति ॥ २॥ इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८॥ तस्मिन्नेतस्मिन्ननौ देवा रेतो जुह्वति । तस्या आहुतेगर्भः संभवतीति । एवं श्रद्धासोमवान्नरेतोहवनपयोयक्रमणाऽऽप एव गीभूतास्ताः । तत्रापामाहतिसमवायित्वात्प्राधान्यविवक्षाऽऽपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति । न स्वाप एव केवला: सोमादिकार्यमारमन्ते । न चाऽऽपोऽत्रिवत्कृताः सन्तीति । त्रिवत्कृतत्वेऽपि विशेषसंज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमवाहल्यनिमित्तः । तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं सोमवृष्टयनरतोदेहेषु । वहद्रवं च शरीरं यद्यपि पार्थिवम् । तत्र पञ्चभ्यामाहुतौ हुतायां रेतोरूपा आपो गर्मीभूताः ॥२॥ मा इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ तस्यां आहुतेर्गर्भः संभवती युक्तं व्यक्ती करोति-एवमिति । यथोक्तया रीत्या श्रद्धादीनां रेतेोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु वनानि तेषामेककस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् । कथं पुनरापो गर्मी भवन्ति भूतान्तराणामपि तुल्यो गीभावस्तस्य पाञ्चभौतिकवादत आह-तत्रति । भूतानां मध्ये । किनित्यपा प्राधान्य. विवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह-न विति । भतान्तरासहकृतानां केवलानामपामारम्भकावे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुदबुदबदल्न्तचञ्चलत्वादित्यर्थः । केवलानामप्त्वमुल्योक्तमिदानीं तदेव नास्ती. यानचेति । इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रोरिति हेत्वर्थः । सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्यतेत्याशङ्कयाऽह-त्रिवत्कृतत्वेऽ. सीति । अपां प्राधान्यविवक्षया प्रश्नपतिवचनयोरप्शब्द इत्युक्तमुपसंहरति--तस्मादिति । केवलानामधामसत्त्वादिति यावत् । कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतभित्यामास्य कार्यद्वारा तदधिगतिरित्याह-दृश्यते चेति । सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्वाहुल्पमित्याशङ्कयाऽऽह- बहुद्रवं चेति । पञ्चमप्रश्ननिर्णयमुपसंह पातनिकां करोति-तत्रेति । योषाग्न विति यावत् । गीभूताः पुरुषवचसो भवन्तीति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८॥ १च. ठ. भूताः । २ क. "करी । ३ख. गाण. गर्भाभ।