पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

नवमः खण्डः ९] छान्दोग्योपनिषत् । २७५ (अथ पञ्चमाध्यायस्य नवमः खण्डः ।) इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नब वा मासानन्तः शयित्वा यावद्वाऽथ जायते ॥ १ ॥ इति स्वेवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यात एकः प्रश्नः । यत्तु धुलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेणाऽs. विश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयक उक्तं तत्मासङ्गिकमिहोच्यते । इह च प्रथमे प्रश्न उक्त वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य चायमुपक्रमः। स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानामुल्वात उल्वेन जरायुणाऽऽतो वेष्टितो दश वा नब वा मासानन्तर्मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वाऽथानन्तरं जायते । ____ उक्तार्थे वाक्यं योजयति--इति विति । अपां गर्भाभावोक्तिमात्रेण पुरुषवचस्त्वस्य निणीतत्वादलमुत्तरग्रन्थेनेत्याशङ्कय तस्य तात्पर्थमाह--यत्त्विति । आहुत्योः संबन्धीति शेषः । प्रासङ्गिक गर्भाभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः प्रासङ्गिकासंगतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति संगतिरिति तात्पर्यान्तरमाह--इह चेति । प्रजानाभूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थेन तासामुत्यत्तिरादावुच्यत इत्यर्थः । द्विधा संगतिमुक्त्वा वाक्याक्षराणि योजयति-स गर्भ इति । सोमवृष्टयन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादि विशेषणद्वयम् । अथवा पूर्वोक्ताकालान्न्यू [ने नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति संबन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तरिति शेषः । उल्वात इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपुरीष वातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटाहतस्य लोहितरेतोशुचिबीजस्य मातुरशितपीतर सानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्र. ज्ञाचेष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति । मुहूर्तरप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्यात च ॥१॥ १ क. ग. घ. ङ. ज. झ. ट. ठ. त. थ. या मा । २ ख. ब. शङ्कयाऽऽह । ३ ग ट. मध्य ग°। ४ क. द्विविधां । ५ ख. घ, ङ. च. अ. द. ण. 'दीर्घ का। ६ क. ग. घ च. ट. ण, ति स ।