पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्ड: १०] छान्दोग्योपनिषत् | २७७ ङ्कयाऽऽह--तैमेनमिति । सर्वस्य तर्हि मृतस्य पैरलोकित्वं स्यादिति चेन्नसाह यदीति । तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण संबन्धः | युक्तं च तन्मृतस्या- ग्न्यर्थं नयनमित्याह --यत इति ॥ २ ॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ पञ्चमाध्यायस्य दशमः खण्डः ) तय इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपा- सते तेऽचिप मशिसंभवन्त्यषिोऽहरह्न आपूर्यमाणप- क्षमापूर्वमाणपक्षायान्पडदङङेति मासा प्रस्तान् ॥ १ ॥ मासेभ्यः संवत्सर ५ संवत्सरादादित्य मादित्या चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥ वेत्थ यदितोऽधि प्रजाः मयन्तीत्ययं मश्नः प्रत्युपस्थितोऽपाकर्तव्यतया तत्तत्र लोकं युत्थितानामविकृतानां गृहमेविनां य इत्थमेत्रं यथोक्तं पञ्चामि दर्शनं लोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मान इत्येव विदुर्जानीयुः । कथमवगम्यत इत्थं विदुरिति गृहस्था एवोच्यन्ते नान्य इति | गृहस्थानां ये त्वनित्थंवेदः केवलेष्टापूदत्तपरास्ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये चारण्योपलक्षिता वैखानसाः परित्राजकाच श्रद्धा तप इत्युपासते तेषां चेत्थंविद्भिः सहार्चिरादिना गमनं वक्ष्यति पारिशेध्यादग्निहोत्राहुतिसंब- न्धाच गृहस्था एवं गृह्यन्त इत्थं विदुरिति । स उल्बावृत इत्यादिनोक्तमनुवदति – वेस्थेति । प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यात्रत् । तद्य इत्थं विदुरित्येतद्वयाचष्टे -- तत्तत्रेत्यादिना | सप्तम्यर्थमेव रँफोरयति— लोकमिति । निर्धारणार्था षष्ठी | वेदनप्रकारमनुवदति – लोकादीति | तेऽर्चिषमभिसंभवन्तीत्युत्तरत्र संबन्ध: । साधारणोक्तविशेषे संकोचो हेतुं विना न सिध्य- तीति शङ्कते--कथमिति । पारिशेष्यं संकोचमिति परिहरति - - गृहस्थानामिति । । १ क. छ. तमेवामिति । २ . ३ . एतान्त्र । ४ च, 'त्युत्थायिना । ५ख. ञ. ट. 'दिग' । ६. क. उ. त्ति । ७. क. स्फुट्यति ।