पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये- षष्टी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः । परि- ब्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह – ये चेति । केषां तहह ग्रहणमत आह- पारिशेष्यादिति । गृहस्थ एव हेत्वन्तरमाह – अग्निहोत्रेति । तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविमज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्त- रसंबन्धाद्गृहस्थानामपि तत्संबन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः । - । ननु ब्रह्मचारिणोऽप्यगृहीता ग्राम श्रुत्याऽरण्यश्रुत्या चानुपलक्षितां विद्यन्ते कथं पारिशेष्यसिद्धिः । नैष दोषः । पुराणस्मृतिमामाण्यादूर्ध्वरेतसां नैष्ठिकब्रह्म- चारिणामुत्तरेणार्यम्णः ः पन्थाः प्रसिद्धः । अतस्तेऽप्यरण्यवासिभिः सह गमि- व्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः । पारिशेष्यमाक्षिपति--नन्विति । ग्रामे सपत्नीको वासः । न च ब्रह्मचारिणां पत्नी- संबन्धः । तन्न ग्रामश्रुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्यो पल- क्षिताः । ततस्तेषामिह ग्रहण संभवान्न पारिशेष्यमित्यर्थः । किं नैष्टिकब्रह्मचारिणोऽत्रे थं विदुरिति गृह्येरन्कि बोपकुर्वाणा इति विकल्प्याऽऽयं दूषयति-नैष दोष इति । “ अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ” ॥ इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यानैष्टिकब्रह्मचारिण मूर्खरेतसामादित्यसंबन्धे- नोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेष/मरण्यवासिभिः सहाख- ण्डितब्रह्मचर्येणैवार्चिर।दिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः । द्वितीय प्रत्याह- - उपकुर्वाणकास्त्विति । ते हि स्वाध्यायग्रहणास्तस्मिन्गृहीते स्वेच्छाबशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देश मर्हन्तीत्यर्थः । ननूर्ध्वरेतस्त्वं इत्थंबित्वमनर्थकं चेदुत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यत प्राप्तम् । न । गृहस्थान्त्यर्थत्वात् | ये गृहस्था अनि- त्यंविदस्तेषां स्वभावतो दक्षिणो धूर्मोदिः पन्थाः प्रसिद्धस्तेषां य इत्थं विदुः सगुणं वाऽन्यद्ब्रह्म विदुः । अथ यदुः· चैवास्मिञ्शव्यं कुर्वन्ति यदि नार्चिषमेव " इति लिङ्गनदुतरेण ते गच्छन्ति । ननूर्ध्वरेतसां गृहस्थानां ८८ १ क. ग. ट. ड. ताश्च वि° । २ ग. ड. ढ. अपि नेत्थं विदुस् । ३ ख. घ. ङ. च. ञ. ठ. ड. ण, दक्षिणतो । ४ ङ. ढ, ण. 'मादिप' ।