पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्ड: १० ] छान्दोग्योपनिषत् | २७९ च संमान आश्रमित्व ऊर्ध्वरेत सामेवोत्तरेण पथा गमनं न गृहस्थानामिति न युक्तमग्निहोत्रादिवैदिककर्मवाहुल्ये च सति । नैष दोषः । अपूता हि ते । शत्रु- मित्रसंयोगनिमित्तं हि तेषां रागद्वेषौ । तथा धर्माधम हिंसानुग्रहनिमित्तौ । हिंसानृत्तमायाब्रह्मचर्यादि च बढशुद्धिकरणमँपरिहार्य तेषाम् । अतोऽपूताः । अपूतत्वान्नोत्तरेण पथा गमनम् | हिंसानृतमायाब्रह्मचर्यादिपरिहाराच शुद्धा- त्मानो हीतरे शत्रुमित्ररागद्वेषादि परिहाराच्च विरजसस्तेषां युक्त उत्तरः पन्थाः । तथाच पौराणिका:- “ ये मजामीपिरेऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेपिरे धीरास्तेऽमृतत्वं हि भेजिरे " || इत्याहुः । " किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्ति संभवादनर्थ कमित्थं वित्त्वं प्राप्तमिति श्रुतिवि रोधाद्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः । किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थ- कमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूधयति - न गृह- स्थानिति । तान्प्रत्यर्थबत्त्रमेवेत्थंबित्वस्य विभज्य समर्थयते – ये गृहस्था इति । स्वभावतस्तदनुष्ठितेष्टापूर्तबल।दित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति संबन्धः । न केवलं गृहस्थानां पञ्चाग्निचित्त्वमेव किंतु सगुणब्रह्मविश्वमपि तेषामस्तीति प्रमाणमाह - अथेति । अन्त्येष्टिकरण करणयोर विशेषेण ब्रह्मविदाम र्चि। दिगतिश्रवण - दस्ति गृहस्थानामपि ब्रह्मवित्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्टयसंभवेन विद्या स्तुतेरपि दुर्थचैनत्व|दित्यर्थः । विहितःचाविशेषादाश्रमःणां तुल्यत्वमाश्रित्य शङ्कते – तन्त्रिति । साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयत – अग्निहोत्रादीति । वैदिकानि कर्माणि भूत्रांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामि व्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्याय विरोधांदित्यर्थः । आश्रमित्वाविशेषेऽपि धर्मविशेषा- द्विशुद्धितारतम्यसंभवान्नैकरूप्पमिति परिहरति — नैष दोष इति । कथं गृहस्थान मग्नि- होत्रादिभूयोधर्मवतां विद्याहीनानामध्यपूतत्वं तत्राऽऽह — शत्रुमित्रेति । अब्रह्मचर्यादी.. त्यादिपदेन परिग्रहित्वादि गृह्यते । अशुद्धिबाहुल्यकारणमतः शब्दार्थः । तुल्यमूर्ध्वरेतसा मप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्कयाऽऽह – हिंसेति । ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितगाह--तेषामिति । ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह — तथाचेति । पौराणिका आहुरिति संबन्धः । - १ ख. ञ. सामान्य | २. र्मणां वा । ३ क. मित्तौ हि । ४ ड. ड. ढ. ततो । ५ क.. 'मप्यप' | ६ ग. ट. 'चत्वा' ।