पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूम- मभिसंभवन्ति धूमादात्रि रात्रेरपरपक्षमपरपक्षाया- इदक्षिणैति मासा संवत्सरमभिप्राप्नु- वन्ति ॥ ३ ॥ अथैत्यर्थान्तर प्रस्तावनार्थो य इमे गृहस्था ग्रामे | ग्राम इति गृहस्थानाम- साधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् । यथा वानप्रस्थपरिव्राजका नामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत् । इष्टपूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म पूर्त वापीकूपतडागारामादिकरणम् | दत्तं बहिर्वोद यथाशक्त्यर्हेभ्यो द्रव्य- संविभागो दत्तम् । इत्येवंविधं परिचरणपरित्राणाद्युपासते । इतिशब्दस्य प्रकारदर्शनार्थत्वात् । ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनी देवतामभिसंभवन्ति प्रतिपद्यन्त । तयाऽतिवाहिता धूमाद्वात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवतामेव कृष्ण- पक्षाभिमानिनीमपरपक्षाद्यान्पण्मासान्दक्षिणा दक्षिणां दिशमोत सविता तान्मासान्दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । संघचा- रिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु । नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिमाप्नुवन्ति । कुतः पुनः संव- त्सरप्राप्तिमसङ्गने यतः प्रतिषिध्यते । अस्ति हि मसङ्गः संवत्सरस्य ह्येकस्या- वयवभूतं दक्षिणोत्तरायणं तत्राचिर | दिमार्गप्रवृत्तानामुदगयनमासेभ्योऽत्रयविनः संवत्सरस्य मातिरुक्ता | अत्त इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ॥ ३ ॥ दशमः खण्डः १० ] वेत्थ यदितोऽधि मजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि प्रामनिवासित्वा विशेषादित्याशङ्कयाऽऽह —– ग्राम इतीति । सपनीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्था नामेच ग्रामविशेषणमसाधारणं न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्या वृत्त्यर्थत्वाँदित्यर्थः । तदेव दृष्टान्तेन रफुटयति- यथेति । वेद्यन्तर्भावव्यासेघाद्ध हिर्वेदीति विशेषणमादौ दत्त - मिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः । इतिशब्दार्थमाह — इत्येवं- १ क. ग ङ.. ट. संभा' । २ ख. ञ. ण. नवव १३ क. तामाभिमुख्येन सं' । ४ क. ङ. च. ण. ॰वमेव कृ° | ५ ङ. ड ढ 'स्ति प्र° । ६ ख. ञ. °णे. द्वे त' । ७क. ङ. “त्वात् । ३ ।