पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ आनन्द गिरिकृ तटीकासं वलितशांकरभाष्यसमेता-[ माध्याये विधमिति । परिचरणं गुर्वादिशुश्रूषा | परित्राणं रक्षणम् | आदिपदं नित्यस्वाध्यायादिन संग्रहार्थम् | उपासते तात्पर्येणानुतिष्ठन्तीति यावत् । कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्कयाऽऽह इतिशब्दस्येति । देवयानाधिकृतेभ्यः सकाशापितृयाणाधिकृतेषु विशेषान्तरमाह - - नैत इति । अप्राप्तप्र तिषेधोऽयमिति शङ्कते — कुत इति । प्रति दर्शयन्नुत्तरमाह — अस्ति हीति । पूर्वत्र- द्यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यवत् ॥ ३ ॥ MONTH मासेम्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्र- मसमेष सोमो राजा तद्देवानामन्त्रं तं देवा भक्ष- यन्ति ॥ ४ ॥ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् । कोऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यतेऽन्तरिक्ष सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते । नन्वनयष्टादिकरणं यचन्नभूता देवैर्भक्ष्येरन् । नैप दोषः । अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् । न हि ते कवलात्क्षेपेण देवें- क्ष्यन्ते । किं तर्छुपकरणमात्रं देवानां भवन्ति ते स्त्रींपशुभृत्यादिवत् । दृष्टयान्न- शब्द उपकरणेषु स्त्रियोऽनं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रम ण्डल आध्यमारभ्यते । तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपो धुलोका हुताः सोमो राजा संभवतीति । ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराचारम्भिका इष्टाद्युपासकानां भवन्ति । अन्त्यायां च शरीराहुतावश हुतायामग्निना दह्यमाने शरीरे तदुत्था आपके धूमेन सहोर्थ्य यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशवृत्तिका स्थानीय बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते ॥ ४ ॥ अन्नशब्दस्यः यथाश्रुतमर्थं गृहीत्वा चादयति - - नन्विति । औपचारिंकमर्थं गृहीत्वा परिहरति — नैष दोष इति । वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽनशब्दो व्या- १. ख, ञ. अस्तीति । २ ञ, पूर्तादि ।