पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | २८५ ख्यायेत तंत्राऽऽहं— दृष्टश्चेति । भवतु कर्मणां देवान्प्रत्युपकरणावं तथाऽनि स्वयमुपे भोगाभावादनर्थकमिष्टादिकरणमित्याशङ्कयाऽऽहन चेति । अन्योपभोग्यानामपि स्वयंभो- गैसवं तरमादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः संभवती- त्याशङ्कथाऽऽह--शरीरं चेति । कथमपां चन्द्रलोके तदेहारम्भफत्वं तदाह -- तदुक्त- मिति । अथापां सौमत्वमेवात्र प्रतीयते नतु कमिंदेहारम्भकत्व मित्याशङ्कयाऽऽह – ता आप इति । कर्मसमवायिनीनामपां कर्मापूद्वारा यजमानदेहप्रतिष्ठानां कथं युलोकप्रवे- शादि संभवतीत्याशङ्कयाऽऽह --अन्त्यायां चेति । अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति—तदारब्धेनेति ॥ ४ ॥ तस्मिन्या वत्संपतिमुषित्वाऽथैत मेवाध्वानं पुनर्निव- तेते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभं भवति ॥ ५ ॥ यातदुपभोगनिमित्तस्य कर्मणः क्षयः संपतन्ति येनेति संपातः कर्मणः क्षयो यावत्संपातं यावत्कर्मणः क्षय इत्यर्थः । तावत्तस्मिंश्चन्द्रमण्डल उषित्वाऽ थानन्तरमतमेव वक्ष्यमाणमध्वानं मार्ग पुनर्नवर्तन्ते । पुननिवर्तन्त इति प्रयो गात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्राऽऽसनिति गम्यते । तस्मादिह लोक इष्टादि कर्मोपचित्य चन्द्रं गच्छन्ति । तत्क्षये चाऽऽवर्तन्ते । क्षणमात्रमपि तत्र स्थातुं न लभ्यते । स्थितिनिमित्तकर्मक्षयात् । स्नेहक्षयादिव प्रदीपस्य | दशमः खण्डः १० ] • तद्देवानामन्नमित्यादि व्याख्याय तस्मिदित्यादि व्याचष्टें-- यात्रदिति । चन्द्रलोकर स्तच्छब्दार्थः । यावत्संपातमपिवेति श्रृयते कथमन्यथा व्याख्यायते तत्राऽऽह--संपत- न्तीति । पुनःशब्दप्रयोगस्य तात्पर्यमाह - पुनरिति । अथेत्यादिवाक्यार्थ मुपसंहरति--- तस्मादिति । तच्छब्दपरराष्टं हेतुं स्पष्टयति-स्थितीति । यथा दीपस्य स्नेहक्षये स्थिति- निमित्तामाबादस्थितिस्तथा चन्द्रलोक स्थितिनिमित्तस्येष्टदर्भोगेन क्षयात्तत्र स्थित्यसंभवा- दावृत्तिरेवेत्यर्थः । तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहण किंवा सावशेष इति । किं ततः | यदि सर्वस्यैव क्षयः कर्मणश्चन्द्रमण्डलस्थ स्यैव मोक्षः प्राप्नोति । तिष्ठतु तावत्तत्रैव मोक्षः स्यान्न वेति । तत आगतस्येह शरीरोपभोगादि न संभवति । ततः शेषेणेत्यादिरमृतिविरोधश्च स्यात् । नन्वि- १ ख. ग. 'पयोगा' । २ ञ. गवत्त्वं । ३ ट. 'देहे प्रतिष्ठितानां । ४ ठ. ड. 'वदु' । ५. क. 'हे' । ६ घ ङ च ण. 'हते किं । ७ क. ग. ट. 'मोतीति ।