पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीका संबलित शांकरभाष्यसमेता-[ ५ पञ्चमाध्याये- 1 ष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्मण्यनेकानि संभवन्ति न च तेषां चन्द्रमण्डल उपभोगः | अतोऽक्षीणानि तानि | यन्निमित्तं चन्द्रमण्डलमारूढस्तान्येव क्षीणानीत्यविरोधः । शेपशब्दश्च सर्वेषां कर्मत्वसा- मान्यादविरुद्धः । अतं एव च तत्रैव मोक्षः स्यादिति दोषाभावः | विरुद्धा नेक योन्युपभोगफलानां च कर्मणामेकैकस्य जन्तोरारम्भकत्वसंभवात् । न चैक- स्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते । ब्रह्महत्या देशकैकस्य कर्मणोऽनेक- जग्मारम्भकत्वस्मरणात् | स्थावरादिप्राप्तानां चात्यन्त मूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासंभवात्। गर्भभूतानां च समानानां कर्मासंभवे संसारानुपर्पत्तिः। तस्मान्नैकस्मिञ्जन्माने सर्वेषां कर्मणामुपभोगः | - तस्मिन्याघसंपातमुषित्वेत्यत्र विचारपति - तोते | तस्य चन्द्रमण्डल प्रापकस्याति रिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् | सावशेषो मुक्तात्कर्मणः सकाशाद तिरि- क्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः । पक्षद्वयेऽपि फलं पृच्छति - किं तत इति । तत्राऽऽद्यं पक्षं पूर्वपॆक्षमुखेन (ण) प्रतिचिक्षिप्सुस्तत्फलमाह - यदीति । तत्रैव दूषण: तर माह - तिष्ठस्विति । चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लो- कोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापार संग्रहार्थम् । न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किंतु स्मृतिश्चेत्य- तत इति । चन्द्रलोक भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्व शेषेणानुपमुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः । सर्वकर्मक्षयपक्षे पूर्वपक्षिणोऽन्यथावादिना प्रतिक्षित सावशेषप- क्षमुत्तरवादी प्रतिपद्यते--- नन्विति । तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशे षोऽस्तीयं. शङ्कयाऽऽह--न चेति । न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः । तह चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारो हेणेत्याशङ्कयाऽऽह- यन्निमित्त मिति । अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावत्य चेति शेषः । यत्तु ततः शेषणेत्यादिस्मृतिविरोध इति रात्र. ऽऽह - शेषशब्दथेति । निःशेषेष्वपि मुक्तेषु कर्म- स्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मस्त्रस्य तुल्यत्वान्नात्र सावशेष - पक्षे स्मृतिविरोधोऽस्तीत्यर्थः । यच्चन्द्रमण्डस्थस्यैव मोक्षः स्यादिति तत्राऽऽह — अत एवेति । शेषकर्मसद्भावादेवेति यावत् । इतश्च कर्मशेषसिद्धिरित्याह – विरुद्धेति । अ.रम्भकत्वसंभवादेकज(त्युपभोग्यकर्मक्षयेऽषि कर्मशेषः संभवतीति शेषः । अथैक- " - - - - १ ङ. 'पत्तेः । त° । २ क. ग.ट. पकिम' | ३ गट. 'चिकीर्षुस्त° | ४ गट, "स्तत्वफल | ५ ग. ट. °णा मं ।