पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशन: खण्ड: १०] छान्दोग्योपनिषत् । अश्वेतन्त्युिक्त पाक्षिपति–नन्विति । किं यथेतमित्येतदेव न संभवति किंवा यथेतमे वेति नि मो नोपपयने तत्राऽऽयं दृषयते - नैष दोष इति । द्वितीय प्रत्याह — न चेति । अत्रति निवृ तेरुक्ता | अनेवंविधमपीति । यथा गतिक्रनो दर्शिको न तथा निवृत्तिर्निपता किं तु विधान्तरेणापि संभवतीत्यर्थः । निवृत्तेः क्रमनियमाभावे कीदृशो नियमो बित्रक्षित इत्याशङ्कय.ऽऽह – पुनरिति । केनाभित्रायेण तर्हि यथेतमित्युकमत आह – अत इति । गतिक्रमचन्निवृत्तिकमे नियमाभागोऽतःशब्दार्थः । उक्तं च यथे. तमनेत्रं चेति। निवृत्तिनियमे फलितमाह -- अत इति । परमात्मानं ज्यावर्तयितुं भौतिक- मित्युक्तम् । कथं पूर्त्रसिद्वाकाशतादात्म्यापत्तिरत्ररोहतां सिध्यतीत्याशङ्कय तत्ताम्यगमन- मेत्र तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह - यास्तेषामिति । घृतस्प संस्थानं कठिन्यम् । तास्त्र का भूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूना इव भवन्तीत्यर्थः । आकाशाद्वायुमिव्यस्यार्थं साधयति – ता अन्तरिक्षादिति ॥ ५ ॥ - अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधि वनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥ अभ्रं भूत्वा तैतः सेचनसमर्थों मेघो भवति मेघो भूत्वोन्नतेषु प्रदेशवथ भवति । वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । स इह व्रीहिया ओषधिवनस्प तयस्तिलमाषा इत्येवंमकारा जायन्ते । क्षीणकर्मणामनेकत्वाद्बहुवचन निर्देशः । मेघादिषु पूर्वेष्वेकरूपत्वादेकवचन निर्देशः । यस्माद्भिरितट दुर्गनदी समुद्रारण्यम- रुदेशादि संनिवेश सहस्राणि वर्षधाराभिः पतितानाम् । अतस्तैस्माद्धेतो खल दुनिं पतरं दुनिष्क्रमणं दुनिंःसरणम् । यतो गिरिताक स्रोतसोह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकारादिभिर्भक्ष्यन्ते । तेऽप्यन्येन | तत्रैव चं सह मकरेण समुद्रे विलीनाः समुद्राम्मोमिर्जलपरैराकृष्टाः पुनर्वर्पधारा- मिर्मरुदेशे शिलातडे वाडगम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालमृगादिपीता 1 १ च. ततो जलसे । २ ङ. च. 'ति । धा° । ३ क. काराः क्षीणकर्माणो जा | ४ ५. "स्तद्वे' | ५ ग. ह. ट. ड. ढ ण च म° |