पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री राम आश्रम दशमः खण्ड: १० छान्दोग्योपनिषत् | २९७ । यदा तु न विद्यासेबिनो नापीष्टादिकर्म सेवन्ते तदाऽयैतयोः पथोर्यथोक्त· योरर्चिधूमादिलक्षणयोर्न कतरेणान्यतरेण चनापि यन्ति तानीमानि भूतानि क्षुद्राणि दंशमशककौटा दीन्यसकृदावतीनि भवन्ति । अत उभयमार्गपरिभ्रष्टा ह्यस कृज्जायन्ते म्रियन्ते चेत्यर्थः । तेषां जननमरणसंततेरनुकरणमिदमुच्यते । जायस्व म्रियस्वेतीश्वरनिमित्तचेष्टोच्यते । जननमरणलक्षणेनैव कालयोपना भवति । न तु क्रियासु भोगेषु वा कालोऽस्तीत्यर्थः । एतत्क्षुद्रजन्तुलक्षणं तृतीय पूर्वोक्तो पन्थानावपेक्ष्य स्थानं संसरताम् | येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्त्यन- भिक्तानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति । तेनासौ लोको न संपूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविधया व्याख्यातः । प्रथमो दक्षिणोत्तरमार्गाभ्याम- पाकृतो दक्षिणोत्तरयोः पथोर्व्यावर्तनाऽपि मृतानामग्यो प्रक्षेपः समानस्ततो व्यावर्तनाऽन्येऽचिरादिना यन्त्यन्ये धूमादिना पुनरुत्तरदक्षिणायने षण्मासान्मा- 'नुवन्तः संयुज्य पुनव्र्यावर्तन्ते । अन्ये संवरसरमन्ये यायः पितृलोकमिति व्याख्याता । पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेणोक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् - तेनासाँ लोको न संपूर्यत इति । यस्मादेत्रं कष्टा संसारगतिस्तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनितवेदनानु- भवकृतक्षणाः क्षुजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशित्ताः सागर इवागाधेऽप्लवे निराशाश्चोत्तरणं प्रति तस्माच्चैवविधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेन्मा भूदेवीवधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थ एप श्लोकः पञ्चाग्निविद्यास्तुतये ॥ ८ ॥ इदानी तृतीयस्थानमुपदिशति यदा विति । पौनःपुन्थेन लध्यमैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह – तेषामिति । यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्त्रेति प्रेरयत्येत दिहोच्यत इति द्रष्टव्यम् | तेनासावित्यादिवाक्यं व्या चष्टे - येनैवमिति । उक्तया रीत्या निर्णीतान्प्रश्नान्विबिध्य प्रतिपत्तिसौकर्यार्थं कथयति – पञ्चमस्त्विति । व्यावर्तनाऽपि १ क. °ष्टापूर्नादि । २ च. हॅ. णं. र्षां च ज° । 3 ङ. ह. ढ. °स्वेति । ज° । ११ ख. ष. ञ. ण. मित्ता चे' । ५ क. 'णक्ष' | ६ ङ.. 'यापिनो भवन्ति । न । च. 'यातना । १०. 'पर्ने भ' । ८ ग. ट. तंत्र | ९ क. सु शोभनेषु भो । १० क. ङ. 'विद्यायां व्या° | ११ ख. ग. ञ. ट. ण. शनि । १२ घ. ढ ण. जननम । १३ ख. ग.व.उ. बुं हुरुतरे | १४ ङ. ञ. 'त पू . | १५ ग. ट. 'बिंधतं । ३६