पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता -[ ५ पञ्चमाध्याये- 1 3 ब्याख्यातेःयुत्तरत्र संबन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्टयनन्तरं विदुषां कार्मेणां च संबस्सरभितिज्ञ. निनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकमिंग इति विभागः । क्षीण!नुशैयानां चन्द्रलेोके भोक्तव्यं कर्म भोगेन क्षपिततःमिति यावत् । स्वशब्दमेवानुवदति--तेनेति । किमर्थनेषां महायासवती तीव्रा संसारगतिरुक्केत्याश- मय।ऽऽह—यस्मादिति । तृतीयस्थानस्य कष्टस्त्रं स्पष्टयति – यस्माच्चेति । जन्मादिना जनिता या वेदना तदनुभचे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः । तृतीय स्थान वदितरयोवृत्तिमत्वात्तुल्य कष्टतेत्यभिप्रेत्याऽऽह – तस्माच्चेति | संसारगःयु- पवर्णनस्य तात्पर्यमुक्त्वा पञ्चविद्यायामनुष्ठानसिद्धयर्थं तस्याः स्तात्रकं श्लेकमुदाहृय व्याचष्टे--तदेतस्मिन्नित्यादिना | पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥ ८ ॥ - २९८ स्तैनो हिरण्यस्य सुरां बिश्श्व गुरोस्तल्पमा- वसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चम- आऽऽचरश्स्तैरिति ॥ ९ ॥ स्तेनो हिरण्यस्य ब्राह्मणसुत्रर्णस्य हर्ता | सुरां पिन्ब्राह्मणः सन् | गुरोच तल्पं दारानावसन् । ब्रह्मा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सहाऽऽचरन्निति ॥ ९ ॥ ॥ ९ ॥ अथ ह य एतानेवं पञ्चाशीन्वेद न सह तैरण्याच- रम्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति

  • य एवं वेद य एवं वेद ॥ १० ॥

. इति पञ्चमाध्यायस्य दशमः खण्डः ।। १० ।। अथ ह पुनर्यो यथोक्ता पश्चान्वेद स तैरप्याचरन्महापातकभिः सह न पाप्मना लिप्यते शुद्ध एत्र । तेन पञ्चाग्निदर्शनेन पावितस्मात्पूतः पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोको भवति य एवं वेद यथोक्तं समस्त पञ्चभिः मश्नँः पृष्टमर्थंजातं वेद । द्विरुक्तिः समस्तमश्ननिर्णयप्रदर्शनार्था ॥१०॥ इति पञ्चमाध्यायस्य दशमः खण्डः ।। १० ।। १ ख. छ. ञ, ण. °शमिनां । २ ख. क. ञ. ण. मोकये क ३ ख. छञपती सं° । ४ क. ग. वङच. ड. उ. इ. ढ. पतितः । Sp's