पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः ११] छान्दोग्योपनिषत् | २९९ पञ्च महापातकिन: लेके निर्दिश्यन्ते न तु पञ्चाग्निविद्यास्तुतिरिह भातीत्याश- ट्र्याऽऽह--अथति । शुद्धत्रे हेतुमाह ——- तेनोते | कस्पेदं फलमित्यपेक्षायां पूर्वोक्त- विद्यावन्तमनुवदति -- य एवमिति ॥ १० ॥ इति पञ्चमाध्यायस्य दशमः खण्डः ॥ १० C ( अथ पञ्चमाध्यायस्यैकादशः खण्डः । ) दक्षिणेन पथ गच्छता मन्नभाव उक्तस्तद्देवानामन्नं तं देवा भक्षयन्तीति क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता | तदुभयदोपपरिजिहीर्षया वैश्वानरा- तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते । अत्स्यन्नं पश्यसि प्रियमित्यादिलि• ङ्गात् । आख्यायिकां तु सुखावबोधार्थी विद्यासंप्रदानन्यायप्रदर्शनार्था च- प्राचीनशाल औपमन्यवः सत्ययज्ञ: पौलुपिरिन्द्र- युम्नो भालवेयो जनः शर्कराक्ष्यो बुडिल ART आश्वतराश्चिस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाश्सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥ । प्राचीनशाल इति नामत उपमन्योरपत्यमौंपमन्यवः । सत्ययज्ञो नामतः पुलुपस्यापत्यं पौळुषिः ।, तथेन्द्रद्युम्नो नामतो भल्लवेरपत्यं भाल्लविस्तस्यापत्यं भालवेयः । जन इति नामतः शर्कराक्षस्यापत्यं शार्कराक्ष्यः । बुडिलो नामतोऽ- श्वतराश्वस्यापत्यमाश्वतराचिः | पञ्चापि ते हैते महाशाला महागृहस्था विस्ती र्णाभिः शालांभिर्युक्ताः संपन्ना इत्यर्थः । महाश्रोत्रियाः श्रुताध्ययनवृत्तसंपन्ना इत्यर्थः । त एवंभूताः सन्तः समेत्य संभूय क्वचिन्मीमांसा विचारैणां चक्रुः कृतवन्त इत्यर्थः । कथम् । को नोऽस्माकमात्मा किं ब्रह्मेत्यात्मब्रह्मशब्दयोरित रेतरविशेषणविशेष्यत्वम् | ब्रह्मेत्यध्यात्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चाऽऽत्मव्यतिरिक्त स्याऽऽदित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अभेदेनाss- त्मैव ब्रह्म ब्रह्मैवाऽऽत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म से आत्मेत्येतत्सिद्धं १ क. क. इ. 'का सु' । २ ङ. च. ढ ण. 'लाभिः संयुक्ताः | ३ घ ङ. रणं च' ! ४.ग. ङ.. च. ट. उ. ड. द. स्व । श्री राम शेष आश्रम