पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता- [५ पञ्चमाध्यायें- भवति । मूर्धा ते व्यपतिष्यदन्धोऽभविष्यदित्यादि लिङ्गगत् ॥ १ ॥ पूर्वोत्तरैसंदर्भयोः संबन्धं दर्शयनुत्तरसंदर्भमवतारयत्ति -- दक्षिणेनेत्यादिना । उत्त- रग्रन्थस्य वैश्वानराख्यात्तृभाबप्प्रतिपत्त्यर्थवे गमकमाह -- अत्सीति । विद्यायाः संप्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्थो चाऽऽख्यायिका । दृश्यते चात्र प्राची - नशालप्रभृतीनां तःसंपत्तिरित्याह- - विद्येति । कथमात्मबह्मशब्दयोरितरेतर विशेषण वि शेष्यत्वं व्यावर्त्याभाबादित्याशङ्कयाऽऽह- - ब्रह्मेतीति । उक्तरीत्या मिथ विशेषगविशे- ष्यत्वे फलितमाह --अभेदेनेति । इतश्योपास्यस्य सर्वात्मत्वं गम्यते परिच्छिन्नोपासनस्य निन्दितावाद्धस्नः ऋतुबज्ज्यायस्त्वमिति न्यायादित्याह- - मूर्धेति ॥ १ ॥ ते ह संपादयांचक्रुरुद्दालको वै भगवन्तोऽयमा- रुणिः संवतीममात्मानं वैश्वानरमध्येति त५ हन्ता- भ्यागच्छामेति त५ हृाभ्याजग्मुः ॥ २ ॥ 2 ते ह मीमांसन्तोऽपि निश्चयमलभमानाः संपादयांचक्रुः संपादितवन्त आत्मन उपदेष्टारम् | उद्दालको वै प्रसिद्धो नामतो भगवन्तः पूजावन्तोऽयमारुणिररूण. स्थापत्यं संप्रति सम्यगिममात्मानं वैश्वानरमस्मदभिप्रेतमध्येति । तं हन्तैदानी- मभ्यागच्छामेत्येवं निश्चित्य तं हाभ्याजतन्तस्तमारुणिम् ॥ २ ॥ भगबन्तः सन्तः संपादयांचकुरिति पूर्वेण संबन्धः ॥ २ ॥ सह संपादांचकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियस्तेिभ्यो न सर्वमिव प्रतिपरस्ये हन्ता- हमन्यमापनुशासानीति ॥ ३ ॥ सह तान्दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा संपादयांचकार । कथम् । प्रक्ष्यन्ति मां वैश्वानर मिमे महाशाला महाश्रोत्रियास्तेभ्योऽहं न सर्वमिव पृष्टं मतिपत्स्ये वक्तुं नोत्सहे । अतो हन्ताहमिदानीमन्यमेषामभ्यनुशासानि वक्ष्या- म्युपदेष्टशरमिति ॥ ३ ॥

॥ ३॥ १ क, 'रयोः सं ) २ क. ख. ग. घ. ङ. च. ट. उ. ड. ढ. ण. तो हे भ° | ३ क. ग. व. ङ. च. ढ. ढ. 'मुस्तै गत' | उ. ण. मुस्तै ६ गत | ४ क. ग. च. द. ठ. द. 'वन्तः । आरुणि स |