पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्र- तीममात्मानं वैश्वानरमध्येति त हन्ताभ्याग- च्छामेति त हाभ्याजग्मुः ॥ ४ ॥ एवं संपाद्य तान्होवाच । अश्वपति नामतो भगवन्तोऽयं केकयस्थापयं कैकेयः संप्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥ ४ ॥ अश्वपतिरित्यादौ भगवन्त इति प्राचीनशालप्रभृतयः संबोध्यन्ते ॥ ४ ॥ तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार सह प्रातः संजिहान उवाच न मे स्तेनी जन- पदेन कदर्यो न मद्यपी नानाहिताग्निर्नाविद्वान स्वैरी स्वैरिणी कतो यक्ष्यमाणो वै भगवन्तोऽ- हमस्मि यावदेकेकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥ ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तर हैव वदे- दात्मानमेवेमं वैश्वानर संप्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥ तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समि त्पाणयः पूर्वाह्ने प्रतिचक्रमिरे तान्हानुपनीयैवै- तदुवाच ॥ ७ ॥ इति पञ्चमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ एकादश खण्ड: ११] ३०१ तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगण्यर्हणानि पुरोहितैर्मृत्यैश्च कारयांचकार कारितवान् । स हान्येद्यू राजा प्रातः संजिहान उवाच विनयेनोपगम्यैतद्धनं मंत्त उपादद्र्ध्वमिति तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रति- गृह्णन्ति मत्तो धनामीति मन्वान आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह । न मे १ च. उ. 'ति । स तैः ।