पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ आनन्द गिरिकृत टीकासंवळितशांकरभाष्यसमेता-[ ५ माध्या मूर्धा त्वेष आत्मन इति होवाच सूर्धा ते व्यपतिष्य- यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ।। १२ ।। अत्स्यन्नं दीप्ताग्निः सन्पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् | अन्योऽध्यक्षप पश्यति च प्रियं भवत्य॑स्य सुतं प्रसुतमासुतमित्यादि कमित्वं ब्रह्मवर्चसं कुले यः कश्चिदेतं यथोक्तमेवं वैश्वानरमुपास्ते | मूर्धा त्वात्मनो वैश्वानरस्यैव न समस्तो वैश्वानरः । अतः समस्तबुद्धया वैश्वानरस्योपासनान्मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यद्विपतितमभविष्यत् । यद्यदि मां नाऽऽगमिष्यो नाऽऽगतोऽभविष्यः | साध्वकार्षीर्यन्मामागतोऽसीत्यभिप्रायः ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ - न केवलं प्राचीनशालनिष्ठमिदं फलं किंत्वन्यस्यापि भवतीत्याह – अन्योऽपीति । तर्हि यथोक्तेश्वानरज्ञानादेव कृतकृत्यतेत्यांशङ्कचाऽऽह- मूर्चाविति । अक्षरार्यमुक्वा विवक्षितार्थमाह—साध्विति ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अथ पञ्चमाध्यायस्य चयदॆशः खण्डः ।) अथ होवाच सत्ययज्ञं पौषि प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मा- नमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ ३ ॥ अथ होवाच सत्ययज्ञ पौलाप हे प्राचीनयोग्य के त्वमात्मानमुपास्स इत्यादि. स्यमेव भगवो राजनिति होवाच । शकुनीलादिरूपत्वाद्विश्वरूपत्वमादित्य सर्वरूप वाद्वा । सर्वाणि रूपाणि हि त्वाष्टाणि यतोऽतो वा विश्वरूप आदित्य स्तदुपासनात्तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥ १ ॥ १. स. ङ. च. ढं. ढ० °त्यस्यापि ० | २ . सुतमि° | ३ ख. ग. ञ. ढ. "र्वां ते वि' ।