पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६ ] छान्दोग्योपनिषत् | वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥ अथ होवाच जनमित्यादि समानम् । एष वै बहुल आत्मा वैश्वानरः । बहु- लत्वमाकाशस्य सर्वगतत्वाद्वहुलगुणोपासनाच्च । त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिनौ ॥ १ ॥ इन्द्रद्युम्नोपरमानन्तर्यमथशब्दार्थः । अत्राऽऽदिपदमेष इत्यस्मात्प्राक्तनवाक्यसंग्रहार्थम् । ऋथम।क।शस्य बहुलत्वमत अह-बहुलत्वमिति ॥ १ ॥ अत्स्यन्तं पश्यसि त्रियमत्यन्तं पश्यति प्रियं भवत्य- स्य ब्रह्मवर्चसं कुले य एतभेवमात्मानं वैश्वानरमु पास्ते संदेहस्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्थयन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ संदेहस्त्वेष संदेहो मध्ये॑मं शरीरं वैश्वानरस्य | दिहेरुपचयार्थत्वान्मांसरु- घिरास्थ्यादिभिश्च बहुलं शरीरं तत्संदेहस्ते तव शरीरं व्यशीर्यच्छीर्णम भवि- घ्यद्यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ कथं शरीरैस्य मध्यमे भागे संशयवाची संदेहशब्दो वर्तते तत्राऽऽह - दिहेरिति । आकाशस्य सर्वगतत्वेन बहुलत्वादेहस्यें च परिच्छिन्नत्वेन तद्भाव त्कथमाकाशं वैश्वानरस्य शरीरं स्यादित्याशङ्कयाऽऽह - मांसेति । तच्छरीरमिति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अथ पञ्चमाध्यायस्य षोडशः खण्डः । ) अथ होवाच बुडिलमाश्वतरावि वैयाघ्रपय के त्वमात्मानमुपारस इत्यप एव भगवो राजनिति १ ख. ङ. ण. 'ना पशुभिरश्वाजादिभिः सं' | ञ. ना पशुभिरश्वादिभिः । सं° । ड. ●ना प्रशुभिव्य गोश्वादिभिः सं° | २ क. च. 'ध्यमश' | ३ ख. छ. ञ. ण. "रम । ४ ख. छ. ञ. "स्वप'