पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः १८] छान्दोग्योपनिषत् | निति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥ अत्स्यनं पश्यसि मियमत्यन्नं पश्यति भियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्ला- (स्येतां यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ अथ होवाचोद्दालकमित्यादि समानम् | पृथिवीमेव भगवो राजन्निति हो- वाच । एष वै प्रतिष्ठा पादौ वैश्वानरस्य | पादौ ते व्यग्लास्येतां विम्लानावभ- विष्यती श्लथीभूतौ यन्मां नाऽऽगमिष्य इति ॥ १ ॥ २ ॥ इति पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ प्राचीनशालप्रभृतिषु पञ्चसु मौनमातिष्टमानेष्वनन्तरमित्यथशब्दार्थः ॥ १ ॥ २ ॥ पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ -- ( अथ पञ्चमाध्यायस्याष्टादशः खण्डः । ) तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वा- नरं विद्वासोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमाभ- विमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेप्यात्मस्वन्नमत्ति ॥ १ ॥ तान्यथोक्तवैश्वानरदर्शनवतो होवाच । एते यूयं वै स्खल्वित्यनर्थको यूयं पृथगिवापृथवसन्तमिममेकं वैश्वानरमात्मानं विद्वांसोऽन्नमत्थ परिच्छिन्नात्मधु- ऊँचेत्येतद्धस्तिदर्शन इव जात्यन्धाः | यस्त्वेतमेवं यथोक्तावयवैर्य॒मूर्धादिभिः १ क. 'तां शिथिलीभू” । २ ख. ञ. द्धयेत्यर्थः | हस्ति' | ३ क. ग. घ. च. ट. डड. 'दिभिर्वि' ।