पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः १८.] छान्दोग्योपनिषत् | ध्वयमंत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः । विधान्तरेण व्याष्ट ह्यलोकादीति | अर्थान्तरमह - प्रकर्षति । आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह – शाखान्तरे विति । अस्तु तर्हेि जाबालश्रुयनुसारेण मूर्चानमारभ्या. घरफलंकपर्यन्ते देहावयवे संपादितो वैश्वानरः प्रादेशमात्र इति नेत्याह – इह त्विति । सर्वात्मत्वेन वैश्वानरस्योपसंहारदर्शनान्नात्र जाबालश्रुतिरनुस व्व्यर्थः । विशेषगान्तरं व्याचष्टे - प्रत्यगात्मतयेति । सर्वेश्वरत्वं सर्वत्मत्वं सर्व प्रत्यक्षत्वं वा हेतूकृत्य वैश्व नरशब्दमनेकधा व्याकरोति—विश्वानित्यादिना | ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽन्नमत्तीति संबन्धः । कथमात्मशब्देन शरीर.दयो गृह्यन्ते तत्राऽऽह - - तेषु हीति । सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति — वैश्वानरविदिति ।। १ ।। तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य सूर्यै- व सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्मऽऽत्मा संदेहो बहुलो बस्तिरेव रविः पृथिव्येव पादा- बुर एव वेदिलमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्दाहार्यपचन आस्पमाहवनीयः ॥ २ ॥ इति पञ्चमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ कस्मादेवम् | यस्मात्तस्य ह वै प्रकृतस्यैवैतस्याऽऽत्मनो वैश्वानरस्य मूर्येक सुतेजाचक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽऽत्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ । अथवा विध्यर्थमेतद्वचनमेवमुपास्य इति । अथेदानीं वैश्वान- रविदो भोजनेऽग्रिहोत्रं संपिपादविषन्नाह - एतस्य वैश्वानरस्य भोक्तुरुर एव वैदिराकारसामान्यात् । लोमानि वहिनेद्यामिवोरसि लोमान्यास्तीर्णानि न दृश्यन्ते | हृदयं गार्हपत्यो हृदयाद्धि मनः प्रणीतमिवानन्तरी भवत्यतोऽन्वाहा. र्यपचनोऽग्निर्मनः । आस्यं मुखमाहवनीय इवाऽऽहवनीयो हूयतेऽस्मिन्नन्न मिति ।। २ ।। इति पञ्चमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्वेतोर्निश्चितमित्याशङ्कामनूय हेतुप्रदर्श- नपरत्वेनोत्तरत्येनोत्तरं वःक्यमुपादत्ते- - कस्मादित्यादिना | वैश्वानरस्य सर्वात्मत्वात्तदु- ५ क. ग. ट. ‘मकर्तृत्वे॰ । २... °लप | ३ ख. ध. ङ. ज. झ. उ. त. थ. "लो वस्ति । ४ . . °दा उर ५ ख ग घ. ड. उ. ड. ढ. 'लो वस्ति° ६ क. ट. “नोत्तरं ।