पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ५पञ्चमाध्यामे पासकस्यापि तदात्मतथा सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः । तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह–अथ वेति । प्रधानविद्या मुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति — अथेति । संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहे- त्यर्थः । वेदिरिति स्थण्डिलमा गृह्यते । अग्निहोत्रे ताबन्मात्रस्योपयुक्तत्वादितरस्य दर्श- पूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीयन्ते ये दर्भा [ स्ते ] वहि:शब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुःखात्, प्रणीतमुत्पन्नमिवेत्यर्थः । आहह्ननीयसादृश्यं च मुखस्य दर्शयति — आहवनीय इति ॥ २ ॥ - इति पञ्चमाध्यायस्वाष्टादशः खण्डः ॥ १८ ॥ ( अथ पञ्चमाध्यायस्यैकोनविंशः खण्डः । ) तयद्धक्के प्रथममागच्छेनोमी ५ सयां प्रथ मामाहुतिं जुहुयातां जुहुयात्प्राणाय स्वाहेति प्राणस्तृष्यति ॥ १ ॥ तत्तत्रैवं सति यद्भक्तं भोजनकाल आगच्छेद्भोजनार्थं तद्धोमयं तद्धोतव्य- मग्निहोत्रसंपन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गतिकर्तव्यता प्राप्तिरिह सभोक्ता यां प्रथमामाहुतिं जुहुयात्तां कथं जुहुयादित्याह- प्राणाय स्वाहेत्यनेन मन्त्रे- णाऽऽहुतिशब्दादवदानप्रमाणमन्नं क्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥ १ ॥ एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रःवस्य सामा- न्यादग्युद्भरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्कय तद्बुद्धिमात्रस्य वित्रक्षितत्वान्मैवमि- त्याह- - अग्निहोत्रेति । इहेति वैश्वानरविदो भोजनमुच्यते । प्रकृतहोमगतावान्तरवि भागमाह -- स भक्तिति । कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छयते तत्र प्रथमं प्रत्याह-- --प्राणायेति । यदि द्वितीयस्ताऽऽह – आहुतीति । अव- दानस्य प्रमाणं परिमाणं कर्मिणां प्रमाणं प्रसिद्धं तेन परिमितमिति यावत् । तृतीयश्चे- तत्राऽऽह--तेनेति ॥ १ ॥ माणे तृप्यति चक्षुस्तष्पति चक्षुषि तृप्पत्या- दित्यस्तृप्यत्यादित्ये तृप्यति यौस्तुप्यति दिवि तृप्यन्त्यां यत्किंच यौवाऽऽदित्यश्वाधितिष्ठत- १ ग. घ. छ च. ट. ठ. ढ. र्थं तद्धोमार्य होगी।