पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता- [५ पञ्चमाध्याये- प्रसिद्ध।ग्निहोत्रनिन्दाद्वारेण वैश्वानरविंदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति -- स यः कश्चिदित्यादिना ॥ १ ॥ अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥ अतश्चैतद्विशिष्टमग्निहोत्रम् | कथम् । अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेण्वित्याद्युक्तार्थम् । हुतमन्नमत्तत्यि- नयोरेकार्थत्वात् || २ || प्राणाग्निहोत्रस्य वैशिष्टये हेत्वन्तरैमतः शब्दोपात्तं प्रश्नपूर्वकं प्रकटयति -- कथमित्या दिना । नैयभिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता की स्थशब्दार्थः । एतदिति वैश्वानरदर्शनमुक्तम् । एवमिति । वैश्वानरस्योक्त- सर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति सांपादिकमग्निहोत्रं गृह्यते । कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृश- मिदं वाक्यं तत्राऽऽह—हुतमिति ॥ २ ॥ 199 तयथेषीकातूलमत्रौ प्रोतं प्रदूतैव हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥ किंच तद्यथेषीकायास्तूल मैग्रममौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रमेवं हास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तः सर्वे निरवशिष्टाः पाप्मानो धर्माधर्माख्या अनेकजन्मसंचिता इह च प्राग्ज्ञानोत्पत्तेर्ज्ञानिसहभाविनय प्रदूयन्ते प्रदोरन्वर्त- मानशरीरारम्भकपाप्मवर्ज, लक्ष्यं प्रति मुक्तेषुववृत्तफलत्वात्तस्य न दाइः । य एतदेवं विद्वानग्निहोत्रं जुहोति भुङ्गे ॥ ३ ॥ इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति - किं चेति । तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुखामध्यवर्ति- तृ गस्येत्येतत् । सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्कयाऽऽह–वर्तमानेति १ ण. “रमिनः । २ ख. छ. ञ. ण. 'लका' । ३ञ. ठ. मौ । ४ ख. म. १० ङ. ञ. ट. ड. ढ. °न्ते क