पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्चतुर्विंशः खण्डः २४] छान्दोग्योपनिषत् । ३१७ वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तस्कर्तुः सर्वदोषासर्शित्व- मित्याशयेनाऽऽह- इ – य एतदिति ॥ ३ ॥ तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छे- दात्मनि हैवास्य तद्वैश्वानरे हुत५ स्यादिति तदेष श्लोकः ॥ ४ ॥ स यद्यपि चण्डालायोच्छिष्टानर्हायोच्छिष्टं प्रयच्छेदुच्छिष्टं दद्यात्प्रति- षिद्धमुच्छिष्टदानं यद्यपि कुर्यादात्माने हैवास्य चण्डालदेहस्थे वैश्वानरे तद्भुतं स्यान्नाधर्मनिमित्तमिति विद्यामेव स्तौति । तदेतस्मिन्स्तुत्यर्थे श्लोको मन्त्रोऽ- प्येष भवति ॥ ४ ॥ विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थ- स्तस्मिन्नित्येतत् ॥ ४ ॥ यथेह क्षुधिता बाला मातरं पर्युपासत एव५ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमु- पासत इति ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति च्छान्दोग्योपनिषदि पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदा नो माताऽनं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदोऽग्निहोत्रं भोजनमुपासते कदा त्वसौ भोक्ष्यत इति, जगत्सर्वे विद्वद्भोजनेन तृप्तं भवतीत्यर्थः । द्विरुक्तिरध्याय- परिसमाप्त्यर्था ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति श्रीमद्भोविन्दभगवत्पूज्यपादशिष्यस्य परमहंस परिव्राजकाचा- र्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्विवरणे पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥