पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० आनन्दगिरिकृ तटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याय - कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ तमादेशं विशिनष्टि येनाऽऽदेशेन श्रुतेनाश्रुतमप्यन्यच्छ्रतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञातं विज्ञातमनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वे चान्यद्वेद्यमधिगम्याध्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । दतेदद्भुततं श्रुत्वाऽऽह कथं न्वेतद- प्रसिद्धमन्यत्रिज्ञानेनान्यद्विज्ञातं भवतीत्येवं मैन्वानः पृच्छति कथं नु केर्ने प्रकारेण हे भगवः स आदेशो भवतीति ॥ ३ ॥ किमित्यधीत्य सर्ववेदमधिगततदर्थं च पुत्रमारम विद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्व|दित्याशङ्कयाऽऽह–सर्वानपीति । तदेतदद्भुतं श्रुत्वाऽऽ हेत्युक्तं विवृणोति — कथं न्विति ॥ ३ ॥ यथा सोम्बैकेन मृत्तिण्डेन सर्व मुन्मयं विज्ञात स्याद्वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥ । यथ सआदेशोभवति तच्छृणु हे सोम्य | यथा लोक एकेन मृत्पि- ण्डेर्न रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं वृद्धि- कारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् । नैष दोषः । कारणेनानन्यत्वात्कार्यस्य | यन्मन्यसेऽन्यस्मिन्वि- ज्ञातेऽन्यन्न ज्ञायत इति । सत्यमेवं स्यात् । यद्यन्यत्कारणात्कार्यं स्यान्न त्वे- चमन्यत्कारणात्कार्यम् । कथं तहद लोक इदं कारणमयमस्य विकार इति । शृणु | वाचाऽऽरम्भणं वागारम्भणं वागालम्बनमित्येतत् । कोऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेयप्रत्ययः | वागालम्बनमात्रं नामैव केवलं न विकारो नाम चस्त्वस्ति परमार्थतो मृत्तिकेत्येव तु मृत्तिकै सत्यं ११ चस्त्वस्ति ।। ४ ।। १ ख. ञ ठ. ण. 'ज्ञतेना । २ च. वंलक्षणं वस्तलक्ष्यत इत्येवं म° | ३ ठ. मन्य- मानः । ४ ख. ञ. ण. 'न नु म' | व. ट. °न तुप | ५ ख. घ. ङ. अ. 'था सौम्यै° । ६ ख. ञ. ण ॰थाऽऽङ्गे° । ७ ख. ङ. ञ. सौम्य | ८ °न करक° | ९ ग. व. ङ. च. ट. ठ. ड. ढ. ° तू ननु क° । १० ड. ढ. तर्हि लो । ११ ट. लोके का ।