पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ आनन्द गिरि कृ तटी का संवलितशांकरभाष्यसमेता-[ ६ वटाभ्याये- न्तोपादानं दान्तिकानेक भेदानुगमार्थ हृढमतीत्यर्थं च । एवं सोम्य स आदेशो यो पयोक्तो भवतीत्युक्तवति पितर्याहेतरो न वै नून भगवन्तः पूजा- वन्तो गुरवो मम ये त एतद्यद्भवदुक्तंः वस्तु नावेदिषुर्न: विज्ञातवन्तो नूनम् । यद्यदि ह्यवेदिष्यन्विदितवन्त एतद्वस्तु कथं मे गुणवते भक्तायानुगताय नावक्ष्य- नोक्तवन्तस्तेनाई मन्ये न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादी- पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु थेन सर्वज्ञत्यं ज्ञातेन मे स्यात्तह्नवीतु कथयत्वित्युक्तः पितोवाच तथाऽस्तु सोम्येति ||७||८|| इति षष्ठाध्यायस्य: प्रथमः खण्डः ॥ १ ॥ hd एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्कयाऽऽह- -अने- केति । न वा इत्यादिप्रतीकमादाय व्याचष्टे – भगवन्त इति । तेषामज्ञाने हेतुमाह - यदित्यादिना | ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादिव्याश- वयाऽऽह-अवाच्यमपीति | गुरूणामज्ञानमतःशब्दार्थः ॥ ६ ॥ ७ ॥ इति षष्ठाव्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ षष्ठाव्यायस्य द्वितीयः खण्डः ) । संदेवें सोम्वेदमग्र आसीदेकमेवाद्वितीयम् | तक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ १ ॥ सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरक- यवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः । एवशब्दोऽवधारणार्थ: । किं तद- धियत इत्याह । इदं जगन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवाऽऽसीदि- त्यासीच्छब्देन संबध्यते | कदा सदेवेदमासीदित्युच्यते । अग्रे जगतः मागुत्पत्तेः । यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते - सदेवेति | सच्छब्दस्य सामान्यविषयत्वं व्युदस्थति - १ ख. ङ. ञ. सौम्ये । २ क. ग. ङ. ट. ण. तद्भगव' | ३ ख. ङ. ञ, सौम्येति । ४ ख. ञ. व सौम्ये ५ व. ङ. च. ठ. ड. द. प. 'नं नित्यं नि । ६. वधार्यत । ७. छ. ञ. ण. लभते ।