पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड: २ ] छान्दोग्योपनिषत् | ३२३ सदितीति । तस्य पृथिव्यादिभ्यो विशेषं दर्शयति — सूक्ष्ममिति । आकाशादिभ्यो विशेषमाह — निर्विशेषमिति । अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह -- सर्वगतमिति । तस्य ताटस्थ्यं व्यावर्तयति-- एकमिति । प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति- निरञ्जनमिति । निष्क्रियत्वेन तत्कूटस्थत्वमाह–निरवयवमिति । यथोक्ते वस्तुनि प्रमाणमाह — यदवगम्यत इति । - - कि नेदानीमिदं सनाग्र आसीदिति विशेष्यते । न । कथं तर्हि विशेष- णम् । इदानीमपीदं सदेव किंतु नामरूपविशेषणव दिदंशब्दबुद्धिविषयं चेतीदं च भवति । प्रागुत्पत्तेस्त्वग्रे केवलसच्छन्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसी- दित्यवधार्यते । न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्त. काल इव । यथा सुषुप्ता दुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं बस्त्विति तथा प्रागुत्तेरित्यभिप्रायः । " 4 - - ४ विशेषणानुसारेण शङ्कते - किं नेदानीमिति । वर्तमानदशायामसत्त्वं जगतो नास्ती- त्याह — नेति । सदा सवाविशेषे विशेषणं न निर्वतीति शङ्कत – कथमिति । किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्वोद्यते किंवा विशेषणस्यार्थवत्त्वं पृच्छयते तत्राऽऽद्यं दूषयति — इदानीमपीति । प्रत्यक्षविरोधान वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः । द्वितीयं प्रत्याह – किंस्विति । यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंश - ब्दस्य तद्द्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदमिदानी मित्यपि व्यवह्रियते तदेव त्प्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिवेत्येतावन्मान्त्रगम्यमेव न विदंशब्दस्य तद्बुदेव विषयो भवतीत्य सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्विव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः । अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह—न हीति । यथा सुषुते काले सदपि वस्तु नेदंशब्दबुद्धयोर्गोचरं तथा मागुत्पत्तः सदपि जगन्नामवत्वेन रूपवत्वेन चेदमिति न व्यवहतुं शक्यं करणोपसंहारस्यो- भयत्र तुल्यत्वादित्यर्थः । सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्कयाऽऽह-यथेति । नहि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शदनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुष्यभावप्रसङ्गादतस्तत्र कौलसन्मानं वस्विति यथाऽवगम स्तथा प्रागुत्पत्तेरपि सर्व सन्मात्रमुक्तमेवेत्यर्थः । १ ख. छ. ञ. ण. 'षवि | २ ब. च. विशेष्येन | ३ ग. ट. हाप्येत । ४ ख. ञ. ण. "मित्यादि व्य' । म.ट. 'वलं स' ।