पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ आनन्द गिरिकृतीका संवलितशाकरभाष्य समेता- [ ६ षष्टाध्याये- } यथैदमुच्यते लोके पूर्वाह्णे घटादि सिसृक्षुणा कुलालेन मृतिपण्डं प्रसारित - 1 मुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतीऽपराह्ने तत्रैव घटशशवाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति तथैहाप्युच्यते संदेवेदमग्र आसीदिति | एक मैवेति । स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते । अद्वितीयमिति । मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्या कारण परिणमयितृकुलाला- दिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारर्ण द्वितीयं वस्त्वन्तरं माप्तं प्रतिषिध्यतेऽद्वितीयमिति नास्य द्वितीय वस्त्र विद्यत इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते । द्रव्यगुणादिषु सच्छ ब्दबुद्धधनुष्टत्तेः । सद्रव्यं सन्गणः सत्क मेंत्यादिदर्शनात् । सत्यमेवं स्यादि. दान मागुत्पत्तेस्तु नैवेद् कार्य सदेवाऽऽसीदित्यभ्युपगरूयते वैशेषिकैः मागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् । न चैकमेव सदद्वितीयं प्रागुत्परिच्छन्ति । तम्मा- वैशेषिक परिकल्पितात्सोऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः । तथा सह उक्तमेवार्थ संप्रतिपक्षेनौदाहरणान्तरेण समर्थयते - यथेत्यादिना | किमिदं सदित्य-' पेक्षायां तदृक्षणमाह--एकमिति | अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह- स्वकार्येति | सजातीय स्वगतभेदहीनमित्यर्थः । विशेषणान्तरमादाय व्याकरोति-अद्वि- तीय मितीति । विजातीय भेदशून्यमित्यर्थः । यदुक्तं सत्तामा नाधिकरण्यात्सदैव सर्वमिति तत्राऽऽरम्भुवादी शङ्कते— नन्विति । किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किंवा प्रांगवस्थायामपति विकल्पाऽऽद्यमशीकरोति सत्यमिति । द्वितीयं दूषयति -- प्रागुत्पत्ते स्त्विति । लक्षणवाक्यं च परपक्षे दुयज्य- मित्याह – न चेति । वाक्यद्वयपर्यालोचनया परपक्षासंभव मुपसंहरति तस्मादिति । दृष्टान्तदान्तिकयोरैकरूप्यादृष्टःन्तानां कार्यकारणभेदनिष्टत्वाच्च वैशेषिकपक्षासिद्धिरि- व्याह -- मृदादीति । १- Sala तत्तत्र हैतस्मिन्मागुत्पत्तेर्वस्तुनिरूपण एके वैनाशिका आहुर्वस्तु निरूपय न्तोऽसत्सद्भावमात्रं मागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति । सदभावमात्रं दिमागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत्प्रतिद्वंद्वि वस्त्वन्तरमिच्छन्ति । यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीत तत्त्वं भवतीति नैयायिकाः । ननु सद्भावमात्रं मागुत्पत्तेश्चेदमभिप्रेतं वैनाशिकैः । कथं प्रागुत्पत्तेरिदमासीदसदेकमे- १ क. ग. ट. 'थेहोचा' । ३. व. च. ट, ठ. नासीदित्ये° | ३ ख. ञ. 'तं विपः ।