पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्ड: २] छान्दोग्योपनिषत् | ३२५ वाद्वितीयं चेति कालसंबन्धः संख्यासंबन्धोऽद्वितीयत्वं चोच्यते तैः। बाढँ नहु तेषां भावाभावमात्रमभ्युपगच्छताम् । असत्त्वमात्राभ्युपगमोऽध्ययुक्त एवाभ्यु. पगन्तुरनभ्युपगमानुपपत्तेः । इदानीमभ्युपगन्ताऽभ्युपगम्यते न मागुत्पत्तरिति चेत् । न । मागुत्पत्तेः सदभावस्य प्रमाणाभावात् । भागुत्पत्तेरसदैवेतिकल्पना- नृपपत्तिः । वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते- तत्तत्रेति । असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति — अभावमात्रमिति । सतोऽन्यदसदिति स्थितेरसद्वादिः नाऽपि प्रतियोगिभूतं सदा स्थित मित्याशङ्कयाऽऽह – सदभावमात्रमिति । तदेव वैधर्म्य- दृष्टान्तेन स्फुटयति — यथेति । सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावा- विति तैरप्यभ्युपगमान्न तथा बौद्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादमती- तप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः । तमिमं वैन।शिकपक्षं शिष्यमुखेन ( ण ) दूषयति — नन्वित्यादिना । शिष्योक्तमङ्गी करोति— बाढमिति । भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंब- न्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः । किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति बिकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति-- असत्येति । किमभ्युपगन्ता यदा कदा- चिदभ्युपगन्तव्यः किं व। प्रारावस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दृषपन्ना- शङ्कते--इदानीमिति । स किं तदानीमसत्त्वान्नाभ्युपगम्यते किंवा तदभ्युपगन्तुरभा- वान्नाऽऽद्य इत्याह—न प्रागुत्पत्तेरिति । न द्वितीयः प्रागुपदादाभ्युप- गन्ता संप्रयभ्युपगम्यते तथा प्रांगवस्थायामभ्युपगन्ता समित्यस्याप्यभ्युपगन्तुरिदान भ्युपगमसंभवान्न हि प्रागुत्पत्तेस्तत्त्वे मानाभावः । विमतः कालो ज्ञातृसत्तावान्कालत्या त्संमतवदित्यनुमान|दित्याह- मागुत्पत्तरिति ।

ननु कथं वस्त्याकृतेः शब्दार्थत्वेऽसदेकमेवाद्वितीय मिति पदार्थ वाक्याथपप- तिस्तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतति चेति । नैष दोषः | सङ्ग्रहण- निवृत्तिपरत्वाद्वाक्यस्य | सदित्ययं तावच्छन्दः सदाकः । एकमेवा- द्वितीय मित्येतौ च सच्छब्देन समानाधिकरणौ । तथेदमासीदिति च । तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्व्य सद्वाक्यार्थविषयां बुद्धि सदेकमेवा- द्वितीय मिदमासीदित्येवं लक्षणां ततः सदाक्यार्यान्निवर्तयत्यश्वारूढ इवाश्वाल- म्वनोऽश्वं तदभिमुखविषयानिवर्तयति तद्वत् । न तु पुनः सदभावमेवाभिधत्ते | अतः पुरुषस्य विपरीतग्रहणनिहत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते ।