पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्ठ दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थ वंत्त्वादसदादिवा- क्यस्यै श्रौतत्त्वं प्रामाण्यं च सिद्धमित्यदोषः । तस्मादसतः सर्वाभावरूपात्स द्विद्यमानमजायत समुत्पन्नम् | अडभावश्छन्दसः ॥ १॥ परपक्षं दूषयित्वा वाक्यतात्पर्य दर्शयितुं चोदयति — नन्विति । * अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थले वा कथमसदिति शब्दस्यार्थसिद्धिर कृतेश्च मीमांसक- प्रक्रियया शब्दार्थत्वे सत्येकम द्वितीय मितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मना वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमं प्रमाणं स्यादित्यर्थः । सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परि॑िहरति — नैष दोष इति । तथाऽपि कथमसदादिशब्दानामगृही- तशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्कयाऽऽह — सदित्ययमिति । एकमद्वितीयमिति शब्दद्वयव दिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरण वेवेत्याह-तथेति सदेवेत्यादिव।क्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्कयाऽऽह— तत्रेति । इचशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् । किमिति वाक्यस्य सद भिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्कयाऽऽह -- न त्विति । सद- भावस्यात्यन्ताभावलक्षणस्य तुच्छत्वाच्छब्दशक्तिगोचरत्वासंभवादित्यर्थः । अन्यपरत्वासंभवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति -- अत इति । प्राक्काले पुरुषस् सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसी- दिति प्रयुक्तमित्य शङ्कयाऽऽह -- दर्शयित्वा हीति । अथवा सदेवेत्यादिना स्वपक्षमुक्त्व तद्द्दृढीकरणर्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति ताःपर्यान्तरमाह - दर्शयित्वा हति । प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमि- दान कार्यस्यापि तद्दर्शयति -- तस्मादिति । अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्कयाऽऽह- ह - अडभाव इति ॥ १ ॥ - कुतस्तु खलु सोम्यैव स्यादिति होवाच कथ- •

  • अश्वादन्योऽनश्वो धर्मविरुद्धोऽधर्मो ज्ञानाभावोऽज्ञानम् ।

1 १ क. ग. ङ. ढ. °वत्ताइस | २ व. च. ठ. ड. "स्य पा' । ३ ग. ट. °क्तिकत्वे | ४ ख. ञ. ण. 'ति श° । ५ क. ख. छ. ञ. ण. गादित्यर्थः । कि । ६ ग.ट. जार्थेना । ७ ख. घ, ङ, ञ. ट. 'लु सौम्यै' ।