पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् | मसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति । कुतस्तु प्रमाणा- त्खलु हे सोभ्यैवं स्यादसतः सज्जायतेत्येवं कुतो भवेन्न कुतचित्प्रमाणादेवं संभवतीत्यर्थः । यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टोऽभावादेवेति तदप्य- भ्युपगमाविरुद्धं तेषाम् । कथम् | ये तावद्वीजावयवा बीजसंस्थान विशिष्टास्तेऽ- सुरेऽप्यनुवर्तन्त एव न तेषामुपमर्दोऽकुरजन्मनि । यत्पुनर्बांजाकारसंस्थानं तबीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपष्ट द्येत । अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः । अथ संवृत्याऽभ्युपगतं बीजसंस्थान रूपमुपमृद्यत इति चेत् । केयं संवृतिर्नाम किमसावभाव उत भाव इति । यद्यभावो दृष्टान्ताभावः । अथ भावस्तथाऽपि नाभाबादकरोत्पत्तिबजावयवेभ्यो ह्यङ्कुरोत्पत्तिः । ३२७ कुतस्तु खल्चित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह- देतदिति । विमतमभाबपुरःसरं कार्यवादकुरवदिति प्रमाणं शङ्कते– यदपीति । अप्रसिद्धविशेषणत्वं मत्वा परिहरति - तदपीति | बीजोपमर्देनाङ्कुरोत्पत्तरिष्टत्वा कथम- प्रसिद्धविशेषणतेति शङ्कते--- कथमिति । किमकुरो पत्तौ बीजावयवा उपमृद्यन्ते किंवा बीजाकारसंस्थानमिति विकल्प्याऽऽयं प्रत्याह – ये तावदिति । द्वितीयं दूषयति — यत्पुनारीति । तरिकं परमार्थवस्तु किंवा संवृतिसिद्धं नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति — अथ संवृत्येति । संवृर्ति विकल्पयति – केयमिति । आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसत्त्वासाधकत्त्रादित्याह- - यदीति । द्वितीयमनूद्य दृषयति — अथेति । तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवाना मकुरा कारपरिणामसि द्वेर्दृष्टान्तासिद्धिरित्यर्थः । नास्ति अवयवा अप्युपमृद्यन्त इति चेत् । न । तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीजसंस्थान रूपोऽवयवी तथाऽवयवा अपीति तेषामप्युपमर्दानुपपत्तिः । बीजावयवानामपि मध्यन्ये सूक्ष्मतरावयवा इत्येवं प्रसङ्गस्यानिवृत्तेः सूक्ष्मावयवास्तवयवाना- सर्वत्रोपमर्दानुषपातः । । १ ख. ङ. ञ. व सौम्मे° । २ ङ. ञ. ठ. हे सौम्यै | ३ ख. ड. ञ. ट. ण. 'ज्जयते ४ ख. ग. छ. ट. पण तीयप । ५ क. गट. 'तिश' । ६. ख. छ. ञ ण. 'न ची।