पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० आनन्द गिरिकृतटीका संवलितशाकरभाष्यसमेत्ता -[६ षष्ठध्याये-- सतोऽन्यद्दस्त्वन्तरं स्यात्कार्यजातं यथाऽश्वागौः । न । पिण्डघटादी नामितरेतरव्य- भिचारेऽपि मृत्त्वाव्यभिचारात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डच घटं तथाऽपि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौरश्वो वा गाम् | तस्मान्मृदादि संस्थानमात्रं घटादयः । एवं सत्संस्थान- मात्रमिदं सर्वमितिं युक्तं मागुलत्तेः सदेवेति । वाचारम्भपा मात्र त्वाद्विकारसं- स्थानैमात्रस्य । विमतमुपादानाद्भिद्यते तद्विलक्षण बुद्धिविष पत्यायथाऽश्वबुद्धिविलक्षणविषयो महिंषततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वा च्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधि. रिति चोदयति — — नन्विति | विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तांत्विक भेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह— नेति । किंच कार्यस्य व्यभिचा रित्वेन रज्जुसर्पादिबन्मिथ्यात्वानुमानादनिर्वाच्य संस्थानादेव कार्यबुद्ध्यालम्बनत्वं सतोऽङ्गीक- र्तव्यमित्याह —पिण्डेति । तदेव स्फुटयति- यद्यपीति | मृत्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अभिचारे मृत्यमिश्रादिदृष्टान्तः । अव्यभिचारफल- माह—तस्मादिति । दृष्टान्तगर्तमर्थं दौष्टन्तिके समर्थयति – एवमिति । पृगेव 'प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्कयाऽऽह – वाचारम्भणेति । ननु निरवयंवं सन्निष्कलं निष्क्रियं शान्तं निरवयं निरञ्जनं दिव्यो ह्यमूर्तः 31.56रुषः सवाह्याभ्यन्तरो ह्यज इत्यादिश्रुतिभ्यो निरवयवस्य सतः कथं विकार संस्थानमुपपद्यते । नैष दोषः | रज्ज्वायत्रयवेभ्यः सर्पादिसंस्थानबद्बुद्धिप रिकल्पितेभ्यः सदवयवेभ्यो विकार संस्थानोपपत्तेः । वाचाऽऽस्म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुतेः । एकमेवाद्वितीयं परमा- र्थत इदंबुद्धिकालेऽपि ॥ २ ॥ कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति -- नन्विति । यथा खल्त्रज्ञातेभ्यो रज्ज्वाद्यत्रय- वेभ्यः सर्पादिसंस्थानमनिर्त्राच्यमिष्टं तथा श्रुतिजनितजगत्कारणबुद्ध्यनुपपत्त्या करि तेभ्यः सतो मायोपाधिकस्यावयत्रेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्म- विवर्तः संभवतीति परिहरति- नैष दोष इति । ब्रह्मविवर्ती जगदिन्यत्र श्रुतिमनुकू- लयति- वाचाऽऽरम्भणमिति | प्रपञ्च मिथ्यात्वे फलितमु संहरति — एकमेवेति ।। २ ।। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत १ क. ङ. ढ. 'रत्यश्वं । २ ख. व. ङ.. चञ. ठ ड ढ ण. नस्य | ३ ख. छ. ञ. ट. क्षणो म' | ४ क. ग. छ. ट. दान्ते ।