पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २.]छान्दोग्योपनिषत् | । तत्तेज ऐक्षत बहु स्थां मजायेयेति तदपोऽसृजत | तस्मायत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव ध्यापो जायन्ते ॥ ३ ॥ ३३१ तत्सदैक्षतेक्षां दर्शनं कृतवत् । अतश्च न प्रधानं सांख्य परिकल्पितं जगत्का- रणम् । प्रधानस्याचेतनत्वाभ्युपगंगात् । इदं तु सच्चेतनमीक्षितृत्वात् । तत्कथ- मैक्षतेत्याह – बहु प्रभूतं स्यां भवेयं मजायेय प्रकर्षेणोत्पधेय । यथा मृद्घटां- द्याकारेण यथा वा रज्ज्वादि सर्पाग्राकारेण बुद्धिपरिकल्पितेन । असदेव तर्हि सबै यद्यते रज्जुरिव सर्पायकारेण । न । सत एव द्वैतभेदेनान्यथागृह्यमाण: त्वान्नासत्त्वं कस्यचिरक चिदिति ब्रूमः । यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्त स्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वमत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचि- रक्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते । सदेव तु सर्वमभिः धानमयदन्यबुद्धचा । यथा रज्जुरेव सर्पबुद्धया सर्प इत्यभिधी यते यथा वा पिण्डघटादि मृदोऽन्यबुद्धया पिण्डघटा दिशब्देनांभिधीयते लोके रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते यथा च मृद्विवेकदर्शिनां घटादि शब्दबुद्धी तद्वत्सद्विवेच दर्शिनामन्यविकारशब्दबुद्धी निवर्तते । यतो वाचो निव र्तन्ते । अप्राप्य मनसा सहेति । अनिरुक्तेऽनिलयन इत्यादिश्रुतिभ्यः । अद्वितीयत्व समर्थनार्थमु चरवाक्यमुत्थाप्य व्याचष्टे -- तत्सदिति । सच्छन्दवाच्यं जग- त्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह - अतश्चेति । ईक्षापूर्वकारित्वादिति यवत् । ÷ चैतनत्वाभ्युपगमान्न तस्पेक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावा- श्रित्योदाहरणद्वयम् । बहु स्यामित्यादिश्रुतितापर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति-असदे- वेत | बहु स्यां प्रजायेंयेत्यनेनेदि तुरेव कार्याकारापत्तिवचनेन वैशेषिका दिमतमेतन्निरस्त - मिति श्रुतितात्पर्य दर्शयनुत्तरमाह - नेत्यादिना । तदेव प्रपञ्चयति यथेत्यादिना । प्रतिज्ञातमर्थ मतद्वयानुसारेण दृष्टन्ताभ्यां स्पष्टयति यथा रज्जुरिति । अज्ञानान्वय- व्यतिरेक.म्यां रज्जुसर्पादेरज्ञानमयत्वं च द्वैताभिनिवेशस्य सन्मात्रा विवेके सत्येवोत्पत्तेर्वि चारेण तद्विदेके चानुत्पत्तैर्द्वैतम्, प्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीत मित्यर्थः । तस्य वाङ्मनसातीतत्वे प्रमाणमाह - यत इति । अन्यदेव तद्विदितादित्यादि वाक्यमादिपदार्थः । + १ ग. चन शो° । २ ङ. चढ. 'त् । कथ° । ३ ख. च. ङ. च. ञ, ठ, ड, ण ‘चिह्नि’ । ४ कं. ग. ट. ‘दिदोऽ° १५ ख ङ. ञ. ढ णं. 'दर्शनात्तु स ।