पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमैता -[ ६ षष्टाध्याये- एवमीक्षित्वा तत्तेजोऽसृजत तेजः सृष्टवत् । ननु तस्माद्वा एतस्मादात्मन आकाशः संभूत इति श्रुत्यन्तर आवाशाद्वायुततस्तृतीयं तेजः श्रुतमिह कथं माथग्यॆन तरमादेव तेजः कृज्यते तत एव चाऽऽकाशमिति विरुद्धम् । नैष दोषः। अकाशवायुसर्गानन्तरं तत्सत्तेजोऽसृजतेतिकल्पनोपपत्तेः । अथ वाऽवि दक्षित इह सृष्टिक्रमः सत्कार्यमिदं सर्वगतः रुदेकमेवाद्वितीयमित्येतद्विवक्षितम् । मृदादिदृष्टान्तात् । अथया त्रिदृत्करणस्य विवक्षितत्वात्तेजोवन्नानामेव सृष्टिमा- चष्टे । तेज इति प्रसिद्धं लोके दग्ध पक्तृ प्रकाशक रोहितं चेति । तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः । बहु स्यां मजायेयेति पूर्ववत् । तदपोऽसृ- जत । आपो द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके | यस्मात्तेजसः कार्यंभूता आपस्तस्माद्यत्र कचँ देशे काले वा शोचति संतप्यते स्वेदृते प्रस्त्रि- द्यते वा पुरुषरतेजस एव तत्तदाऽऽपोऽधि जायन्ते ॥ ३ ॥ 573 38- तैत्तिरीयैव श्रुतिबिरोधमाशङ्कते–नन्विति । तथापि कथं विरोधधीरित्याशङ्कयाऽऽह- इति विरुद्धमिति । अरयां श्रुतौ सतः सकाशादेव प्राथम्पेन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकाशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विंरुद्धं सिव्यतीत्यर्थः । तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसंभवांन्न विरो- घोऽस्तीति परिहरति — जैप दोष इति । सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नःसयद्वितीयत्वं तु सत्तो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह -- अथ वेति । तत्र गमकं दर्शयति--मृदादीति । मृदादिकार्थं घटादि तद्द्व्यतिरेकेण नास्ति मृदाद्येत्र तु सत्यमिति, दृष्टान्ते पादान ब्रह्म॑णः सतस्तेजोबन्नादिकार्थं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः । तत्तेजोऽसृजनेत्यादिश्रुतेस्तात्पर्यान्तरमाह- अथवा त्रिवृत्करणस्येति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादी ऋित्करण- स्थेष्टत्वात्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति चाच्यं भूतश्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्ध। काश दिसृष्टरुपलक्षणवत्करणश्रुत्यापीकरणोपक्ष- णात् । तथाच श्रुरून्तरसिद्धयोर काशवाजःप्रभृतिष्यन्तर्भात्रमभिप्रेस लघुपायेन सर्वस्य सन्मात्रलं मन्तव्यमिति मन्यानाः श्रुतिस्विवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेक सृष्टिमाहेत्यर्थः । तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्कच वाक्यार्थमाह - तेजोरूपेति । अपां तेजःकार्यत्वे ले,कानुभवमनुकूलपति - यस्मादिति ॥ ३ ॥ - ३ क्र. स्तत्तती । २क, 'तिद्धं लो' । ३ ख. ञ. ण. 'चन दे' । ४ ग. ट, यक्षु ।