पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [ ६ षष्टाध्याये- ए नुमातुम् | अतः प्रधानस्यैवाचेतनस्य सतवेतनार्थत्वान्नियतकालक्रमविशिष्ट. कार्योत्पादकत्ये।चैक्षतेर्वेक्षतेति शक्यमनुमातुमुपचरितमेवेक्षणम् | दृष्टश्व लोकेऽचे- तने चेतनवदुपचारः । यथा कूलं पिपतिपतीति तद्वत्सतोऽपि स्यात् । न । तत्सत्यं स आत्मेति तस्मिन्नात्मोपदेशात् । आत्मोपदेशोऽप्युपचरित इति चेद्यथा ममाऽऽत्मा भद्रसेन इति सर्वार्थकारिण्यनात्मन्यात्मोपचारस्तद्वत् । न । सदस्मीति सत्सत्याभिसंधस्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते-- नन्विति | सैनिधेः शब्दस्य बलीयस्वमुपेत्य परिहरति—न सदीक्षणस्योन | तुल्यं तेजःप्रभृतिष्वपि शब्दगम्य- स्वमीक्षणस्येति चेन्नेत्याह——तेजःप्रभृतीनां त्विति । विगतमीक्षितं न भवत्यचेतनत्वा- त्कुम्भवदित्यनुमान।त्तेजोमुख्ये जगतीक्षणासंभवात्तत्र श्रुतं तदौपचारिकमुचितमियर्थः । सीख्योऽनुमानावष्टम्मेन शङ्कते-- नन्विति | अचेतनस्य कथमीक्षणमित्याशङ्कयाऽऽह- अत इति । अनुमातुं बल्लयितुमिति यावत् । कथमचेतने चेतनवदुपचारस्तंत्राऽऽह- दृष्टश्चेति । आत्मशब्दावष्टम्भेन परिहरति - - नेत्यादिना । आत्मोपदेशोऽपि प्रधानें गौणो भविष्यतीति शङ्कते— आत्मोपदेशोऽपीति | तामेव शङ्कां दृष्टान्तद्वारा विवृ- णोति——यथेति । इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्ठस्य मोक्षोपदेशा- दिव्युत्तरमाह—नेत्यादिना । - सोऽप्युपचार इति चेत् । प्रधानात्माभिसंघस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव । यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राम- मिति ब्रूयात्त्वरापेक्षया तद्वत् । न । येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युप- क्रमात् । सत्येकस्मिन्विज्ञाते सर्व विज्ञातं भवति तदनन्यत्वात्सर्वस्याद्वितीयव चनाच्च । न चान्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्याऽनुमेयं वा लिङ्गतोऽस्ति येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्व च मपाठ कार्यस्योपचरितत्व परिक- ल्पनायां वृथा श्रमः परिकॅल्पयितुः स्वात्पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधि गतत्वात्तस्य । तस्माद्वेदमामाण्यान्न श्रुतार्थपरित्यागः । अतश्चेतनावत्कारणं जगत इति सिद्धम् ॥ ४ ॥ इति षष्टाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ १. ख. ञ. ङ. ढ ण. त्यात इवेक्षत इति । २ ङ.. °ति तत्स । ड ढ ति सत्या | ३ क॰ ड. °त् । मोक्षोऽप्यु' | ४ क. ग. ट. ढ, 'त्वाच्च सर्व | ५ ग. घ. च. ट. ठ. कल्पितः स्या ।