पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३] छान्दोग्योपनिषत् | ३३५ १ मोक्षोपदेशोऽप्युप'वरितो भविष्यतीति शङ्कते-सोऽपीति । शङ्कामेव वितृणोति प्रधानात्मेति । एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति-न येनेति । उक्तमेव विवृणोति - सत्येकस्मिन्निति | सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्व. ज्ञानोपदेशो युक्तिमानित्याह-न चेति । संप्रति हि प्रधानज्ञाने तद्विकारस्य तदामिनस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते तस्मादेक विज्ञानेन सर्वविज्ञःनो- पदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्कयाऽऽह – सर्वस्य चोति । कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वा दिल्याशङ्कयाऽऽह – पुरुषार्थेति । तस्यानुमानवादिनः सांख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जड जडयोरैक्यानुपपत्तिरित्यादिना तर्फेणैव सिद्धत्वा दुपनि- षदारम्भो वृथैवेत्यर्थः । श्रुतेर्मुख्यार्थत्वे बाधका भावात्तत्परित्यागायोगा दीक्ष त्यधिकरणन्यायेत प्रधानवादासिद्धिरिति परमत निरसनमुपसंहरति - तस्मादिति । प्रधानवादासंभवे परिशे- यातं स्वमतं निगमयति-अत इति ॥ ४ ॥ - -- इति षष्ठाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ षष्ठाध्यायस्य तृतीयः खण्डः । ) तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्या- ण्डजं जीवजमुद्भज्जमिति ॥ १ ॥ तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्ष निर्देशन तु तेजःप्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करणे प्रत्यक्षनिर्देशा- नृपपैत्तिः । देवता शब्दप्रयोगाच्च तेजःप्रभृतिष्विमारितस्रो देवता इति । तस्मात्तेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भव- न्ति । कानि तानीत्युच्यन्ते । आण्ड जमण्डाज्जा तमण्डजमण्डजमेवाऽऽण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादियो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीज सर्पः सर्पाणां तथाऽन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः 34. महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता संप्रति जीवाविष्टानां भौतिकानामपि परम्पस्या ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति – तेषामिति । पूर्वाध्याये येषां गत्यागती दर्शिते १ ख. छ. ञ. ण. 'देशवश| | २ ख. छ. ञ. देशामुख्य' । ३. ख. ञ, ण. पत्तेः। दे° । ४ च. च. उ. ड. 'तान्युच्य° । ५ क. णां बीजं त ।