पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्ड: ३] छान्दोग्योपनिषत् । न्च नः तयोरस्ति पृथव्युत्पादनापेक्षैत्यर्थः । स्वेदजादेरण्डजादावन्तर्भावस्थ प्रापकमाह-- एवमिति ।। १ ।। सेयं देवतेक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥ सेयं प्रकृता सदाख्या तेजोवनयोनिर्देवतोक्तैक्षतेक्षितवती यथापूर्व बहु स्या- मिति । तदेत्र बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तमित्यत ईक्षांपुनः कृतवती बहुभ- वनमेव प्रयोजनमुररीकृत्य । कथम् | हन्तेदानीमहमिमा यथोक्तास्तेजआद्यास्तिस्त्रो देवता अनेन जीनेति स्वबुद्धिस्थं पूर्वसृष्टयनुभूतमाणधारणमात्मानमेत्र स्पर न्त्याहानेन जीवेनाऽऽत्मनेति । प्राणधारणकर्त्रात्मनेति वचनात्स्वात्मनोऽव्य- तिरिक्तेन चैतन्यस्वरूपतयाऽविशिष्टेनेत्येतदर्शयति । अनुमविश्य तेजोबन्न- भूतमात्रा संसर्गेण लब्यविशेषविज्ञाना सती नाम च रूपं च नामरूपे व्याकर- चाणि विस्पष्टया करवायसौनामाऽयमिदंरूप इति व्याकुर्यामित्यर्थः । जीवाविष्टानां भूतानां सत्कार्यव्वं प्रकरणप्रामाण्या दुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तरकार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवत्र्यवहारास्पदमित्लङ्गीकारा- तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिका नि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति-सेयमित्या- दिना । यथा बढु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभाचा दिल्या. शङ्कयाऽऽह—तदेवेति । इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपा- चिकस्य कारणत्वान्मायोपावित्रशा पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् | आत्मनेतिविशेषणस्य तात्पर्यमाह – मायेति । निर्विकल्प- ऋचिन्मात्ररूपा देवता मायावश | महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराष्ट्रप्रभृतिषु समष्टिव्यष्टयामसु देहेषु प्रविश्य तत्तदेहाभिमानक्ती दरेंदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संयोज्य पिण्डं व्याकरोतीयाह — अनुभविश्यति । ननु न युक्तमिदमसंसारिण्या: सर्वज्ञाया देवताया बुद्धिपूर्वक मनेकशतस- इस्रानर्थाश्रयं देहम नुमविश्य दुःखमनुभविष्यामीति संकल्पनमनुप्रवेशच १ क. च. ण. 'भूतं प्रा । २ क. ग.ट. सात्वेन त्र' | ३ ठ. °त्तरं प्र” । ४ ख. ञ म. बताई ।