पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृपयः खण्डः ३] छान्दोग्योपनिषत् | शकःलाद्यनवच्छिन्नदेवतारू रूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्धयाद्यव्यासः सिध्यतीत्यर्थः । बुद्ध्याद्यभ्यासस्य कार्यान्तरं दर्शयति- सुखीति । परैव तर्हि देवता संसारिणी स्यादिति चेःसत्यमज्ञानद्वारा बुद्ध्य दिसंबन्धमनुभूय जीवत्वं प्राप्य सैव संसर- तीव्ल्याह — छायामात्रेणेति । परस्या देवतायाः स्वतः संसाराभावं दृष्टान्तेन स्पष्टयति- यथेत्यादिना । तस्याः स्वतो दुःखःयसंबन्धे श्रुतिं प्रम. णपति - सूर्य इति । उपाधि- द्वारा तस्याः संसारित्रे च श्रुतिरस्तीसाह ध्यायतीति । - - ननु च्छायामात्र श्वेज्जीवो सुषैत्र प्राप्तस्तथा परलोकेहलोकादिं च तस्य । नैष दोषः । सदास्मना सत्यत्वाभ्युपगमात् । सर्वे च नामरूपादि सदात्मनैवें सत्यं विकारजातं स्वतस्त्वनृतमेव । वाचाऽऽरम्भणं विकारो नामधेयमित्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि वलिरिति न्यायमसिद्धिः । अतः सदात्मना सर्व व्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे चानृतत्वमिति न कश्चिदोषस्तार्किकैरिहानैवक्तुं शक्यः । यथेतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविक लपैमात्रा अतत्वनिष्ठा इति शक्यं वक्तुम् || २ || समा प्रतिबिम्चे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्चानः शङ्कते — नन्विति । तन्मृषात्वगिष्टमेवेत्यांशङ्कयाऽऽह -- तथेति । जीवस्य मृत्र स्वीकृते सति तहलोक- परलोकौ तद्धेतुर्गोक्षरतद्धेतुश्चेति सबै मृषा स्वादित्यर्थः । विशिउरूपेण मिथ्यात्वेऽपि स्वरू- पेण सत्यत्व, ज्जीवस्य ब्रह्मास्मीतिज्ञानामुक्तिः संभवतीति समाधत्ते - नैष दोष इति । यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह -- सर्व चेति । कथं तर्हि तस्य मिथ्या- त्वोक्तिरित्याशङ्कयःऽऽह्—- स्वत इति । यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण • मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमि- व्याह--तैथेति । अथ भोक्ता रूरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यता- मित्याशङ्कच ऽऽह--यक्षानुरूपो हीति । लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्प्रसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्रेऽपि तल्लु. ६पस्य सन्मात्रस्य सँख्यत्वमिति व्यवस्थेयर्थः । यच्च तार्किकैरुच्यते प्रपञ्चय मिथ्यत्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याह तिरिति तदप्युक्तन्यायेन निरस्तमित्याह – अत इति । अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति -- यथेति ॥ २ ॥ १ ग. ट. 'दित° । च. 'दिकं च । २ ङ. ड ढ व स्वभावो यस्य चैतन्यं तस्याऽऽ- भासोऽपि तादृश इति वचन | ३ ग. व. च. ट. ठ, ड, ढ. 'नुषकुँ । ङ. नृशङ्कितुं श । ४ ख. घ. ङ. च. ञ ठ ड ढ ण. रुदा है' । ५ क. पनामा' | ६ ख छ. ञ. ण. °(वे’ । ७ ख, ङ, ञ, ण. समि' | ८ ख छ, ञ. ‘त्वे वाइँदै’।