पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ षष्टाध्याये- तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवते मास्तिस्रो देवता अनेनैव जीवेनाऽऽत्मनाऽनुमविश्य नामरूपे व्याकरोत् ॥ ३ ॥ सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीतीक्षित्वा तासां च तिसृणां देवतानामेकांतिंत्रितं करवाणि । एकैकस्याख्रिदृत्करण एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावोऽन्यथा हि रज्ज्वा इवैकमेव त्रिवृत्करणं स्यात् । न तु तिसृणां पृथक्पृथकित्रवृत्करणमिति । एवं हि तेजोवन्नानां पृथङ्नामप्रत्ययलाभः स्याचेज इदमिमा आपोऽन्नमिदामेति च । सति च पृथङ्नामप्रत्ययलामे देवतानों सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवभीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यविम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुमविश्य यथासंकल्पमेव नामरूपे व्याकरोदसौनामाऽयमिदंरूप इति ॥ ३ ॥ - न्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूच तासागित्यादि व्याचष्टे - सैवमित्या- दिना | व्याकरत्राणत्यैक्षतेति संबन्धः । कथं पुनरिदं त्रिकरण मित्याशय प्रथम- कैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं त्रिवक्षितभित्याह- एकैकस्या इति । गुणप्रधानभावानङ्गीकारे समानपारंगा- णसूत्रत्रयनिर्मितरज्जुत्रब्रिवृत्करणमेकमेव स्यादित्याह – अन्यथेति । एवकारर्थं दर्शयति- न स्विति | गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः । इतश्च गुणप्रधानभावेन त्रिवृत्करण मेष्टव्यामित्याह — एवं हीति । पृथङ्नामप्रत्ययामेनापि किं स्यांदिल्याशङ्कचा- ऽऽह --पृथगिति । सेय.मित्यादि व्याचष्टे - एवमित्यादिना ॥ ३ ॥ - - तासां त्रिवृतं त्रिवृत मेकैकामकरोयथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृधिवृदेकेका भवति तन्मे विजानीहोति ॥ ४ ॥ इति षष्टाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ कु. ङ. च. °च पू°। २ङ.. नव्य | ३... च... ठ, ड, 'रम | ४ ग. च. देवत दी॰ । ५ क, ख, ञ. उ. नु । ६ ख. ञ. ‘लु सौम्ये ' !