पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्ड: 8 ] छान्दोग्योपनिषत् । ३४३ तथा यदादित्यस्य यच्चन्द्रमसो यति इत्याद समानम् । ननु यथा तु खलं सोम्येमास्तिस्रो देवताका भवति तन्मे विजानीत्युक्त्या तेजस एव चतुर्भिरप्युदाहरणैरन्यादिभित्रिवृत्करणं दर्शितं नावन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः । अवन्नविषयाण्यप्युदाहरणान्येवमेव च द्रष्टव्या- नीति मन्यते श्रुतिः | तेजस उदाहरणमुपलक्षणार्थम् | रूपवत्वात्स्पष्टार्थत्वोपप तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसंभवात् । न हि गन्धरसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् । प्रक्रमपर्यालःचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते - नन्विति । यद्वपकू दे रोहितं रूपं तेजसस्तद्रूपं यच्छुलं तदपां यत्कृष्णं तदन्नस्य यच व्रीहियवादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तस्येव्युदाहरण संभवान्न न्यूनते. त परिहरति- नैष दोष इति । तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमिः यः शङ्कयाऽऽह -- तेजस इति । यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदतस्त्रयाणां रूपत्र- त्वेन यथोक्तरूपविभागस्य तेषु रफुटत्वसंभवात्तेजसो दृष्टान्तप्रदर्शनमन्ना दिविषयोदाहरणो- पलक्षणार्थं तेन नोपेक्षितमित्यर्थः । अन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्त हैं तत्र रसग न्धयोरसाधारण्य.त्तयोस्त्रिवृत्कारणमुदाहर्तव्यमित्याशङ्कयाऽऽह — गन्धरसयोरिति । यथा यदबन्नयोभीस्वरं लोहितं रूपं तेजरतद्रूपं यच्छुकंदणं यकृष्णं तदन्नस्येति शक्ते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः । ननु त्रिवृत्करणे त्रिष्ञपि रूपन्धरसौ संभावितौ तत्कथं तयोस्त्रयाणामसं- भवोक्तिस्तत्राऽऽह- ६ -- न हीति । संभावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहर- र्णीयावित्यर्थः । तर्हि सर्वेषु भूतेषु संभावितयोः स्वर्शशब्दयोरुदाहरणं किं न स्यादित्या- शङ्कयाऽऽह – स्पर्शशब्दयोरिति । यथा लोहितादिरूपत्रां त्रयाणां विभागेन दर्श- यितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्राणां विभागेन दर्शयितुं शक्यं नो खल्त्रे- कत्रे।ष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रो पलब्ध- मित्यर्थः । यदि सर्व जगचिवृत्कृतमित्यग्न्यादिवत्रीणि रूपाणीत्येव सत्यमग्ने- रग्नित्ववदपागाज्जगतो जगत्वम् । तथाऽन्नस्याप्यप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथाऽपामपि तेजःशुङ्गन्त्वाद्वाचारम्भणत्वं १ क. ख. घ. ञ. ण. नु । २ ख. ङ. ञ. 'लु सौम्ये | ३ ड ढ त्वादिस्पष्टा । ४ ख. ञ, ण. 'तद' । ५ ख ६ . ख. छ. ञ. ण. 'रणयोस्त्रिष्व ।