पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ आनन्दगिरिकृटीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये- तेज इत्येव सत्यम् | तेजसोऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं सदित्येव सत्यमि त्येपोऽय विवक्षितः । ननु वान्तरकृते तेजःप्रभृतिष्वनन्तता दवशिष्येते । एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं लता विज्ञातेन सर्वम- न्यविज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् । नैष दोषः । रूपवद्रव्ये सर्वस्य दर्शनात् । कथम् | तेजसि ताबद्भावति शब्दस्पर्शयोरप्युपलभाद्वाय्वन्त- रिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावोऽनुमीयते । तथाऽन्यो रूपवतो रसग- न्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोवनानां त्रिवृत्करणदर्शनेन सर्वे तद न्तर्भूतं सद्विकारत्मात्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्त रूपत्र- द्रव्यं प्रत्याख्याय वाचाकाशयोस्तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति । अथवा रूपत्रतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यं तथा पश्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकार. स्वारसंता विज्ञातेन सर्वमिदं विज्ञातं स्यात्सदे कमेवाद्वितीय सत्यमिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्व विज्ञातं भवतीति सूक्तम् ||२||३||४|| 4 सर्वस्य त्रिऋत्कृतत्वे फलितमाह -- यदीति । यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्निलवज्जमतो जगत्त्रमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना । तथापि कथं सन्मात्रपरिशेषः स्यादित्याशङ्कयाऽऽह——तथेति । रूपत्रयव्यतिरेकेण जगतोऽभवत्कृष्णस्यापि रूस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलका- र्यत्वात्तदतिरेकेणःसत्त्वं पृथिवीपमपि शुरूप मात्राणां लोहित रूपमात्रतेजोविकारत्वाच द्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेना सत्वं सन्मात्रमेव परिशिष्टमित्येतन्त्रिकर णप्रकरणे विवक्षितमित्यर्थः । त्रिकरणपक्षे नैक विज्ञानेन सर्वविज्ञान सिध्यति परिशिष्ट- विज्ञेयसद्भावादिति शङ्कते– नन्विति | इतिपदं कथमित्यादिना संबध्यते । गन्धादयश्च शब्दान्ता गुणा गुणिष्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञाने।पपत्चिरित्याह- गन्धेति । तद्द्ज्ञिाने सद्विज्ञानेन वाय्वादिविज्ञानं तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति थावत् । अकाश|देत्रिष्वेवान्तर्भावसंभवान्न परिशिष्टविज्ञेयमस्तीति परिहरति - नैष दोष इति । कथं तेजोबन्नेषु सर्वस्याउकाशा देदर्शन मियाह-कथामति । तत्र शब्दस्पर्शयोराकाश- बायोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलव्ध दर्शति-तेजतीति | तेजो ग्रहगमबन्नयोरु पक्षणं तत्रापि युपगन्धादि ज्ञेयान्तरमिति तत्राऽऽह तथोत । - । १ क. ड. च. विज्ञान २ को विज्ञानेन । ३ ख. पञ. ठ. ड.. 'देतदेक' |