पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ४ ] छान्दोग्योपनिषद् भूतत्रये स्पर्शाधन्तर्भावबदिति यावत् । त्रिष्वेवान्तर्भवे फलितमाह - रूपवतामिति । भूतत्रये रूपवत्याकाशा देरन्तर्भाव व्यतिरेकद्वारा समर्थयते-- न हीति । अन्तर्भावोक्ति प्रयास परिहर्तुं पक्षान्तरमाह -- अथवेति । प्रदर्शनार्थं पञ्चीकरणस्येति शेषः । कर्थे वीकरणे सन्मात्रपरिशेषः सिध्यतीत्याशङ्कयाऽऽहं – यथेति । यदा पंञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरैकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वकैकशो निक्षिप्यँते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रांषि पञ्चानां भागानां पृथकरणे पञ्चैत्र तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिध्य- तीति त्रिकरणवत्पश्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्वय तिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः । उक्तन्य. ये- नैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति--तदेकस्मिन्निति ॥ २ ॥ ३ ॥ ४ ॥ एतद्ध स्म वै तद्विद्वान आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽय कश्चनाश्रुतममतमविज्ञात- मुदाहरिष्यतीति ह्येभ्यो विदांचक्रुः ॥ ५ ॥ एतद्विद्वांसो विदितवन्तः पूर्वेऽतिक्रान्ता महाशाला महाश्रोत्रिया आहुई स्म बैं किल । किमुकबन्त इत्याह – न नोऽस्माकं कुलेऽवेदानीं यथोक्त विज्ञानवतां कश्चन कश्चिदध्यश्रुतममतमविज्ञातमुदाहरिष्यति नोदाहरिष्यति सर्वे विज्ञातमे चासत्कुलीनानां सद्विज्ञानैवस्वादित्यभिप्रायः । ते पुनः कथं सर्व विज्ञातवन्त इत्याह——एभ्यस्त्रिभ्यो रोहितादिरूपेभ्यखित्कृतेभ्यो विज्ञातेभ्य: सर्वमप्यन्य च्छिष्टमेवमेवेति विदांचज्ञातवन्तो यस्मात्तस्मात्सर्वज्ञा एव सद्विज्ञानात आसुरित्यर्थः । अयवैभ्यो विदांचकुरित्यग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यांचफुरत्येतत् ॥ ५ ॥ त्रिवृत्करणपक्षेऽप्येक विज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपपाय त्रिकरणमुदाहरणान्तरेण दर्शयितुमारभते--एतदिति । त्रिवृत्करणामिति यावत् | ते पुनरिति त्रिवृत्करणविज्ञान; चन्तो निर्दिश्यन्ते ॥ ५ ॥ यदु रोहितमियाभूदिति तेजसस्तङ्कपमिति तद्विदांच- ऋर्यदु शुक्लमियाभूदित्यपार रूपमिति तद्विदांचक्रुदु १ ख॰ ञ, ण. सर्वेषु । २ क. ग. ट. 'प्यन्ते त° । ३ ख. अ. 'देतदेक° । ४ ङ. नं० डॅ. ड ढ. "ति स॰ । ५ क. ग.ट. नवाई | ६ क. घ. ण. आर ।