पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चनः खण्डः [५] छान्दोग्योपनिषत् ( अथ ष्ष्टव्यायस्य पञ्चमः खण्डः ) । अन्नमशितं त्रेधा ते तस्य यः स्थविद्रों धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मास योऽणि- ष्ठस्तन्मनः ॥ १॥ ३४७ अन्नमशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथं, तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्टः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थुलऽशस्तत्पुरीपं भवति । यो मध्यमोंऽशो धातुरन्नस्य तद्र- सादिक्रमेण परिणम्य मांसं भवति योऽणिष्ठोऽणुतमो धातुः स ऊर्ध्वं हृदय माप्य सूक्ष्मासु हिताख्यासु नाडीप्वनुमविश्य वागादिकरणसंघातस्य स्थितिम त्पादयन्मनो भवति मनोरूपेण विपरिणमन्मनस उपचयं करोति । ततश्चान्नोप- चितत्वान्मनसो भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविमष्टादि सर्वेन्द्रिय विषयव्यापकत्वापेक्षया । यच्चान्येन्द्रियवि पयापेक्षया नित्यत्वं तदप्यापेक्षिकमेवेति वक्ष्यामः । सदेकमेवाद्वितीय मिति श्रुतेः ॥ १ ॥ कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति — कथ मित्यादिना । रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचशे भोक्ते.ति हिताख्या न.ड्यातास्विति यावत् । कथमन्नोपयोगात्मागेच मनसः सिद्धत्वात्तन्मनो भव-

  • तीत्युच्यते तत्राऽऽह -- मनोरूपेणेति । मनसोऽन्नोपचितत्ववचनाद्वैशेषिक परिभाष पि

दूषिता वेदितव्येसाह- ततश्चेति । मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्या शङ्क्याऽऽह- यदपीति । केनाभिप्रायेण तर्हि विशेषणमित्य शङ्कयाऽऽह - किं तहीति । तर्हि चक्षुरादिभ्यो वैलक्षण्यःदस्ति तदपेक्षया नित्यत्वमित्याशङ्कयाऽऽह – यच्चेति । यद्वा चक्षुरा दिष्यसत्स्वपि मनसः सत्वोपलम्भात्तदपेक्षया तत्य नित्यत्वमेष्टव्यमित्याशङ्कयाऽऽह- यच्चेति । आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्कयाऽऽह– सदिति ॥ १ ॥ । - आपः पीताखेधा विधीयन्ते तासां यः स्थविष्ठो धातुरतन्सूत्रं भवति यो मध्यमस्तहोहितं योऽणिष्ठः स प्राणः ॥ २ ॥ तथाऽऽपः पीतात्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।