पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः ७ ] छान्दोग्योपनिषत् | मयोक्तमित्यमिप्रायोऽतोऽप्सेज सोरस्त्वेतत्सर्वमेवम् | मनस्त्वन्नमयमित्यत्र नैका न्तेन मम निश्चयो जातोऽतो सूय एव मा भगवान्मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति | तथा सोम्येति होवाच पिता ।। ५ ।। इतिष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ मनआदेरन्न।दिगयत्त्रमुपसंहरति – अन्नमयं हीति । अतो भवदभिप्रायादिति यावत् । एतः सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजे गयत्वं चोच्यते | हृदयप्रदेशे प्राणादिसंनिधाना. विशेषे कथं मनस एवानरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह – मन- स्त्विति । मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुथापयति — तथेति ॥ ५॥ इति षष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ( अष्ठध्यायस्य सप्तमः खण्डः । ) षोडशकल: सौम्य पुरुषः पञ्चदशाहानि माडशी: काममपः पिचाऽऽपोमयः प्राणो नपिवतो बिच्छे- तस्पत इति ॥ १ ॥ अन्नस्य भुक्तस्य योऽणिष्ठो धातुः स मनास शक्तिमधात्साऽन्नोपचिता मनसः शक्तिः पोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता | तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्त या संयुक्तस्तद्वान्कार्यकारणसंघा- त्तलक्षणो जीवविशिष्टः पुरुषः पोडशकल उच्यते यस्यां सत्यां द्रष्टा श्रीता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति दीयमानायां च यस्यां सामर्थ्यहानिः । वक्ष्यति चाथान्नस्याऽऽयै द्रष्टेत्यादि । सर्वस्य कार्य कारणस्य सामर्थ्य मनःकृतमेव | मानसेन हि वलेन संपन्ना वलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचिदन्नस्य सर्वात्मकत्वात् । अतोऽकृतं मानसं वीर्य षोडश वला यस्य पुरुषस्य सोऽयं षोडशकल: पुरुष एतच्चेत्प्रत्यक्षीकर्तुमिच्छास पञ्चदशसंख्याकान्यहानि माऽशीरशनं मा कार्पी: काममिच्छातोऽपः पित्र यस्मा नपिवतोऽपस्ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापोमयोड

  • उदकपानमकुर्वतः ।

१ ख. ङ. ञ. सौम्येति । २ ख. ञ. सौम्य । ३. घ. च. ट. ठ. ड. 'र्यकर' । ४ ग.. घ. ङ च ट ठ ड ढ र्यकर | ५ क संवातस्य |