पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ आनन्द गिरिव तटीकासंवलितशांकरभाष्यसमेता [ ६ पठाण्याये विकारः प्राण इत्यवोचामन हि कार्य स्वकारणोपतृम्भमन्तरेणाविभ्रंश- मानं स्थातुमुत्सहते || १ ॥ अन्वयव्यतिरेकाभ्यां मनमोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्ति कलावेन कैल्पयति—अन्नस्येत्यादिना । पोडशदिना वच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् । तथाऽपि पुरुषस्य कथं षोडशकलेल्वमत आह तयेति । तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि – यस्यामिति । तया संयुक्तः पुरुषः पेडशकल इति पूर्वेण संबन्धः । अन्नरसजनितं मानसशक्तिप्रयुक्तं संवा तस्य स.मर्थ्यमित्व क्यं प्रमाण यति–वक्ष्यति चेति । आयो लाभोऽस्यास्तीत्यायी यावदनं प्राप्यात्ता भवति तावदेवास्य द्रष्टेयादिव्य. चहारः संभवतीत्यर्थः । उक्तेऽर्थे लोकानुभवमनुकूलपति — सर्वस्येति । तदेव स्पष्टपति- मानसेनेति । किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच ध्यानमन्त्रपरम्प- रापरिनिष्पन्नमन्नस्यैव देह।दिरूपेण परिणतत्वादित्याह— ध्यानेति । एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह — अत इति । यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना | एतच्छन्दे नान्नकृतं मानसं वीर्यं पर मृश्यते । विच्छेत्स्पते त्रिच्छेदमापत्स्यते यस्मात्तस्मादपः ति पूर्वेण संबन्ध: । अपां पानपरित्यागे प्राणवि. च्छेदे कारणमाह — यस्मादिति । प्राणस्याम्नयत्वेऽपि किमित्यपां परत्यागे तस्योच्छे- दस्तत्राऽऽह - न हीति ॥ १ ॥ सह पञ्चदशाहाने नाऽऽशाथ हैनमुपससाद किं बवीमि भो इत्युचः सोम्प यजूषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥ सहैवं श्रुत्वा मनसोऽनमत्थं प्रत्यक्षीकर्तुमिच्छन्पञ्चदशाहानि नाऽऽशा- शनं न कृतवान् । अथ पोडशेऽहनि हैनं पितरमुपससादोपगतत्रानुपगम्य चीवाच किं ब्रवीमि भो इति । इतर आह ऋचः सौम्य यजूंषि सामान्यधी ध्वेति । एवमुक्तः पित्राऽऽह— न वै मा मामृगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थो हे भो भगवन्निति ॥ २ ॥ ॥ २ ॥ १ ख. घ, ङ. ङे. ञ. ठ ड ढ ण. 'विश्रयमा । २ ग. छ. ट. कल° । ३ क. गं. ट. °लात्त्रम॰ । ४ क. गट. वाक्यशेष | ५ ख ञ. सौम्य | ६ व. ङ. ठ. त. सि न । ७ ख. ञ. सौम्य |