पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टनः खण्डः ८] छान्दोग्योपनिषत् | ३५७ सुषुप्तेऽपि स्वाप्यय: स्यात्तत्रापि कामकर्मादिसंबन्धसंभवादित्याशङ्कयाऽऽह्— अनन्वाग तमिति । — कदा स्वमान्तो भवतीत्युच्यते । यत्र यस्मिन्काल एतन्नाम भवति पुरुषस्य स्वप्स्यतः | मसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह । यदा स्वपि तीत्युच्यते पुरुपस्तदा तस्मिन्काले सता सच्छन्दवाच्यया प्रकृतया देवतया संपन्न भवति संगत एकीभूता भवति । मनासे प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सडूप यत्परमार्थसत्यमपीतोऽपिगतो भवति । अतस्त- स्मात्त्वपितीत्येनमाचक्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति । गुणनामप्रसिद्धितोऽपि स्वात्ममार्गिग्यत इत्यभिप्रायः । कथं पुनलौकिकानां मसिद्धा स्वात्मसंपत्तिर्जाच्छ्रमनिमित्तोद्भवत्वात्स्वापस्येत्याहुः । जागरिते हि पुण्यापुण्यनिमिरासुखदुःखाने कायसवान्तो भवति ततथाऽऽयस्तानां करणानापनेक व्यापारनिमिचग्लानानां स्वव्यापारेभ्य उपरमो भवति । श्रुतेश्च आर्म्यत्येव वाक्याम्यति चक्षुरित्येवमादि । तथा च गृहीता वाग्गृहीतं चक्षुर्ट. हीतं श्रोत्रं गृहीतं मन इत्येवमादीनि करणानि माणग्रस्तानि प्राण एकोऽश्रान्तो देहे कुलाये या जागर्ति तदा जीव: श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिप द्यते । नान्यत्र स्वरूपाबस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिलौकिकानां स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणं तद्वदिहापि स्यादिति युक्तम् । तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त इत्यादिश्रुतेश्च ॥ १ ॥ - सति जीवरूपे कथं देवताभावः संभवतीत्याशङ्कयाऽऽह - मनसीति । तस्मादित्य स्यात:शब्दो व्याख्यातस्तेन परामृष्टं हेतुमेव स्पष्टयति — स्वमात्मानमिति । स्वपिति- नामनिर्वचनफलं दर्शयति- गुणेति । सुते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानु- त्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्नितिं वक्तव्यमिति पृच्छति – कथं पुनरिति । ज्वर/दिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभाव: सुषुप्तं च श्रमापनोदाबस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुत्साह – जाग्रदिति । संगृहीतं समाधानं विवृणोति- - १ ङ.. सिद्धेरपि । २ ख. घ ङ च ञ. ण. 'म्पतिवा' । ३ ख. व. ञ. ट. प. चक्षुः अस्यति श्रमिये ।