पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृत टीका संवलितशांकरभाष्यसमेता- [६ षष्टाध्याये- - - मूलं तदर्शयितुमिच्छम्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्माहेत्यर्थः । अशनेत्यस्य सनन्तत्वा भावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह – अरानेति । यकारस्य पेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्वेत्यर्थः । तत्राशनायापिपासयोः सतवं विज्ञाप यति——यत्रेति । सामान्येनोक्तं नाम विशेषतो ज्ञातुं पृच्छति - किं तदिति । यत्कठि- नमन्नं पुरुषेणाशितं तमीता आपो नयन्त इति संबन्धः । तदेति परिणःमःवस्थोक्तिः । अत्यनस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते । कथं तदा नाम्म्रो गौणत्वं तदाह- जीर्णे हीति | तत्रापामशित नेतृत्वादशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे । यथा गो- नायो गां नयतीति गोनाय इत्युच्यते गोपालः । तथाँऽश्वान्नयतीत्यश्वनायोड श्वपाल इत्युच्यते । पुरुषनायः पुरुषांन्नयतीति राजा सेनापतिर्वा । एवं तत्त दाsप आचक्षते लौकिका अशनायेति विसर्जनीयलोपेन । तत्रैत्रं सत्यद्भी रसा दिभावेन नीतेनाशितेन श्वेत निष्पादितमिदं शरीरं वटकणिकाया मित्र शुङ्गोऽ. र उत्पत्ति उद्गतस्तमिमं शुद्ध कार्ये शरीराख्वं बटादिङ्गदुत्पति दे सौम्य विज्ञानीहि । किं तत्र विज्ञेयमित्युच्यते । सृण्विदं शुङ्गवत्कार्यत्वाच्छरीरं नामूलं मूलरहित भविष्यतीत्युक आइ श्वेतकेतुः ॥ ३ ॥ तव्यथेत्सत्र तच्छृब्दार्थमाह - तंत्रेति । एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः । अशनायेति कथमणमाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽ — विसर्जनीयेति । यस्य व्याख्यानमेवं सीपीयर्थः। अद्भः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥ ३ ॥ तस्प व मूलः स्यादन्यत्रानादेवमेव सर्लु सोम्या- नेन शुङ्गेनापो मूलमन्विच्छाद्धिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुद्धेन सन्मूल- मन्विच्छ सन्मूलाः सोम्पेमाः सर्वाः प्रजाः सदा- यतनाः सत्प्रतिष्ठाः ॥ ४ ॥ यथेवं समूलमिदं शरीरं बटादिशुङ्गवत्तस्यास्य शरीरस्य क मूल १ ख. छ. ञ. ण. असनिति | २ क. प्रत्युक्त | ३ ख. घ. च. ञ. ड. ढ. ण. थाऽश्व. नायोऽश्वा” । ४ ख. घ. ञ. सौम्य । ५ ख. छ. ञ. ण. तत्तत्रे | ६ ख ञ. °लु सौम्या | ७ ख. ञ. सौम्य | ८ ख. घ. सौम्य | ९ख घ. झ. सौम्येमाः |