पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टिमः खण्डः ८ ] छान्दोग्योपनिषत् स्याद्भवेदित्येवं पृष्ठ आह पिता | तस्य के मूलं स्यादन्यत्रान्नादनं मूलमित्यभि प्रायः । कथम् | अशितं ह्यन्नमद्भिईवीकृतं जाठरेणाग्निना पच्यमानं रसमावेन परिणमते । रसाच्छोणितं शोणितान्मांसं मासान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मैज्जायाः शुक्रम् । तथा योषिद्भुक्तं चानं रसादिक्रमेणैवं परिणतं लोहितं भवति । ताभ्यां शुक्रशोणिताभ्यागन्नकार्याभ्यां संयुक्ताभ्यामन्चैनैवं प्रत्यहं भुज्य मानेनाऽऽपूर्यमाणाभ्यां कुड्यमित्र मृत्पिण्डै: प्रत्यहमुपचीयमानोऽन्नमूलो देहशुङ्गः परिनिष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टं तदपि देहवद्विनाशो त्पत्तिमत्त्वात्कस्माच्चिन्मूलादुत्पतितं शुङ्ग एवेति कृत्वाऽऽह | यथा देहशुङ्गोऽ अमूल एवमेव खलु सोम्यान्नेन शुङ्गेन कार्यभूतेनापो मूलमन्नस्य शुङ्गस्यान्विद्र प्रतिपद्यस्व । अपामपि विनाशोत्पत्तिमत्त्वाच्छुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ | तेजसोऽपि विनाशोत्पत्तिमत्त्चाच्छुङ्गत्व मिति तेजसा सोम्य शुद्धेन सन्मूलमेकमेवाद्वितीयं परमार्थसत्यम् । यस्मिन्सर्व मिदं वाचाऽऽरम्भणं विकारो नामधेयम नृतं रज्ज्वामिव सर्पादिविकल्पजातमध्य- स्तमविद्यया तदस्य जगतो मूलमतः सन्मूलाः सत्कारणा हे सौम्येमाः स्थावर- जङ्गमलक्षणाः सर्वाः मजा न केवलं सन्मूला एवेदानीमपि स्थितिकाले सदा- यतनाः सदाश्रया एव । नहि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वाऽस्ति । अतो मृद्वत्सन्मूलत्वात्प्रजानां सदायतनं यासां ताः सदायतनाः प्रजाः । अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिरवसानं परिशेषी यासां ताः सत्प्र- तिष्ठाः ॥ ४ ॥ - अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति-- कथमित्यादिना । तथा पुरुषभुक्ता- नवदिति यावत् । तथाऽपि कथं सतो मूलस्य सिद्धिरत आह --- --यत्त्विति | सतो मूलस्य वास्तवं रूपं दर्शयति - - एकमिति । तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्य- ति-- यस्मिन्निति । अध्यासे मूलकारणमाह -- अविद्ययेति । प्रजाः सर्वाः सन्मूला: सदायतनश्चित्युक्तमर्थं दृष्टान्तेन समर्थयते – न हीति । सत्प्रतिष्ठाः सदायतनाश्चेत्यनयो.. रर्थभेदाभावमाशङ्कयाऽऽह -- अन्ते चेति । प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्यः चाऽऽश्रयविषयत्वान्त्र पौनरुक्त्यमित्यर्थः । लयशब्दस्य सुषुप्यादिविषयत्वं वारयति-- समाप्तिरिति । सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयतिः --अव १ क. मज्जातः। ङ. ट, मज्जाभ्यः | २. शोणितं | ३ ख ङ... 'लु सौम्या | ४ ख. गम् ञ. ट. ढ ण. 'न तत्कार्य | ५ ख ङञ. सौम्य ६ ख ञ सौंभ्य । ७ ख..ङ ञ सम्येमाः