पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्ठाभ्याये- सानमिति । तस्यागावत्वेन तुच्छरूपत्वं निरस्यति – परिशेष इति ॥ ४ ॥ अथ यत्रतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्योत तत्रैतदेव शुङ्गमुत्पतित सोम्प विजानीहि नेदममूलं भविष्यतीति ॥ ५॥ अथेदानीम शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह । यत्र यस्मिन्काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवदिदमपि गौणमेव नाम भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्ग देहं क्लेद- यन्त्यः शिथिली कुर्युरव्वाहुल्यायदि तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्यमाण (स्वप्स देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाह | तेज एव तत्तदा पतिमवादि शोपयद्देहगतलो- हितमाणभावेन नयते परिणमयति । तद्यथा गोनाय इत्यादि समानमेवं तत्तेज आचष्टे लोक उदन्येत्युदकं नयतीत्युदन्यम् | उदन्येतीति च्छान्दसं तत्रापि पूर्ववत् | अपामध्येतदेव शरीराख्यं शुङ्ग नान्यदित्येवमादि समानमन्यत् ॥५॥ x अम्नाख्यशुङ्गद्वारा सतो मूलस्वाधिगतेरनन्तरमिव्यथशब्दार्थ: । पिपासतीत्येतन्नम पुरुषो यस्मिन्काले भवतीति योजना | कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याश• ट्र्याऽऽद्द – द्रवीकृतस्येति । भवत्वां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्कयाऽऽ- ह — नितरां चेति । तदा पानेच्छावस्थायामित्यर्थः । तेजतो यदुकनेतृत्वमुक्तं तत्र श्रुतिमवतार्थ व्याचष्टे – तदेतदाहति । उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह— उँदन्येतीति । तत्रापि तेजस्यपत्येतत् । यथाऽशनायेति च्छादसं तथा तेजस्युदन्येत्यपि च्छ|न्दसमेत्रेत्याह–पूर्ववदिति । अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधि- गतिरस्तीत्याह – अपामपति ॥ ५ ॥ - तस्य व मूल५ स्पादन्यत्राद्धयोऽद्भिः सोम्य १ ख. ञ. सौम्य | २ ज. झ. 'नीहीत ने । ३ ख. व. च. ञ. उ. ड. ण. कर्तव्य । ४ ख. ञ. ण. ब्यत इति । नि° | ५ क न ग. ञ. ट. ण. "नामा पु° | ६ क. छान्दस मिलि । ७ स. ञ. सौम्य ।