पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलूँ सोम्पेमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्प पुरुषस्य प्रयतो वाङ्म- नसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥ ३६.२ सामर्थ्यात्तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् । अतोऽशुङ्गेन देहेनाऽऽषो मूलं गम्यते | अद्भिः शुङ्गेन तेजो मूलं गम्यते | तेजसा शुङ्गेन सन्मूलं गम्यते पूर्व- वत् । एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्यान्नादिपरम्परया परमार्थसत्यं सन्मूलमभयमसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयि त्वाशिशिपति पिपासतीति नामंप्रसिद्धिद्वारेण यदन्यदिहास्मिन्मकरणे तेजो- बन्नानां पुरुषेणोर्षंयुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांक- येणोपचयकरत्वं वक्तव्यं प्राप्तं तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति । यथा नु खलु येन प्रकारेणेमास्तेजोबन्नाख्यास्ति स्त्री देवताः पुरुषं माप्य त्रिवृ त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत नमशितं त्रेधा विधीयत इत्यादि । तंत्रैवोत्तमन्नादीनामशितानां ये मध्यमा धातवस्ते साप्तधातुकं शरीरमुपचिन्व- न्तीत्युक्तम् । मांसं भवति लोहितं भवति मज्जा भवत्यस्थि भवति ये त्वणिष्ठा घातवो मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्तीति चोक्तं तन्मनो भवति स प्राणो भवति सा वाग्भवतीति । तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिररतीत्याह- सामर्थ्यादिति । त्रिवृत्करण- वश/दिति यावत् | शरीरस्य भूतत्रयकार्यत्वगतः शब्दार्थः । यथा पूर्वमन्त्रशुङ्गेन देहेना चाख्यं मूलं गम्पत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्ये- यमित्याह — पूर्ववदिति । वृत्तानुवादपूर्वकं यथेत्या दिवाक्यमादत्ते – एवं हीति । उक्तया - १ ख. घ. ञ. सौम्य । २ ख. ञ. सौम्येमाः | ३ क. ग. ज. ट. थ. तु । ४ ख ञ. लु. सौम्ये° । ५ ङ. ञ सौम्य | ६ घ ङ. च. उ. ढ ण. 'पभुज्य ७ ग. घ. ठ. ड. कार्य - कार° | ८ क. ग. च. ट ठ ड. तु |