पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६. आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्टाध्याये-- • सर्वा: प्रजा: सुषुप्ते सत्संपद्यन्त इत्येतद्येन तत्संपद्य न विदुः सत्संपन्ना वयमिति | अतो दृष्टान्तेन मां प्रत्याययत्वित्यर्थः । एवमुक्तस्तथाऽस्तु सोम्येति होवाच पिता ॥ ७ ॥ इति षष्टाध्यायस्याष्टमः खण्डः ॥ ८ ॥ अस्येति षष्ट्य। सर्वं जगदुक्तम् | असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्श यति–परमार्थेति । कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्विकमिति शङ्कां वारयति- सतत्त्वमिति । तत्त्वेन सहितमान सतत्त्वमित्याशङ्कयाऽऽह – याथात्म्यमिति । कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽऽह-आत्मशब्दस्यति । सतो भवत्वात्मत्वं मम तु किं स्य।दित्याशङ्कयाऽऽह–अत इति । संदेहास्पदमेव विशिष्टि - अहन्यहनीति | संदेहे हेतुमःह—येनेति । तेन संदिग्धमेतदिति पूण संवन्धः । संदेहव्यावृत्तिस्तर्हि कथमित्यत आह - अत इति । पुत्रस्य प्राप्त संदेहापौहार्थमुत्तरग्रन्थमुत्थापयति – एवमिति ॥ ७ ॥ इति षष्टाव्यायस्याष्टमः खण्डः ॥ ८ ॥ ( अथ षष्ठाध्यायस्य नवमः खण्डः । ) 3 यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्य- यानां वृक्षाणा रसान्समवहारमेकता५ रसं गम- यन्ति ॥ १ ॥ यत्पृच्छस्यहन्यहाने सत्संपच न विदुः सत्संपन्नाः स्म इति तत्कस्मादित्यत्र शणु दृष्टान्तम् | यथा लोके हे सौम्य मधुकृतो मधु कुर्वन्तीति मधुकृतो मधु- करमक्षिका मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम् | नानांत्ययानां नानागतीनां नानादिकानां वृक्षाणां रसान्समवहारं समाहँत्यैक तामेकभात्रं मधुत्वेन रसान्गमयन्ति मधुत्वमापादयन्ति ॥ १ ॥ यथेत्यादिदृष्टान्तमश्रत।रयति—यत्पृच्छति । प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सं- पद्य सःसंपन्नाः स्मो वयमिति यन्न बिंदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभृतं दृष्टान्तमुच्यमानं शृणु त्वमिति योजना । यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याइ – यथेति । पुनर्मधुपदं क्रियापदेन संब- १ क. ड. ढ. सुषुतौ । २ ख ड ञ. सौम्येति । ३ ख. ञ. सौम | ४ ख. ङ. ञ, सैौम्थ । ५ ख॰ ग॰ च, ठ॰ ड. ण. 'हृत्य समाइन्यै° । ६ ख. छ. ञ. ण॰ ॰टान्तं शृ॰ ।