पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-नवमः खण्डः ९ ] छान्दोग्योपनिषत् । ३६७ न्धप्रदर्शनार्थम् | मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति -- कथमित्यादिना । नानागतीनां नान।फलान।मित्येतत् | बहूनां रसानां कथमेकतेत्याशङ्कयाऽऽह – मधुत्वे- नेति । तदेव स्पष्टयति — मधुत्वमिति ।। १ ।। ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्व रसोऽस्म्यमुष्पाहं वृक्षस्य रसोऽस्मीत्येवमेव खल सोम्पेमाः सर्वाः प्रजाः सति संपय न विदुः सति संपयामह इति ॥ २ ॥ , ते रसा यथा मधुत्वेनैकतां गतास्तत्र मधुनि विवेकं न लभन्ते । कथम् अमुष्याहमाम्रस्य पनसस्यै वा वृक्षस्थ रसोऽस्मीति | यथा हि लोके बहूना चेतैनावतां समेतानां प्राणिनां विवेकलाभो भवत्यमुण्याहं पुत्रोऽमुण्याहं नप्ताऽ- स्मीति । ते च लब्धवित्रेकाः सन्तो न संकीर्यन्ते न तथेहानेकप्रकारवृक्षरसाना- मपि मधुराम्लतितकटुकादीनां मधुत्वनैकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः । यथाऽयं दृष्टान्त इत्येवमेव खलु सौम्येमाः सर्वाः प्रजा अहन्यहाने सति संपद्य सुषुप्तकाले मरणप्रलययोश्च न विदुर्न विजानीयुः सति संपामह इति संपन्ना इति वा ॥ २ ॥ • ते यथेत्यादि व्याचष्टे – ते रसा इति । उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति— यथा हीत्यादिना । इहेति प्रकृतदृष्टान्तोक्ति: । दृष्टान्तमनूद्य दार्शन्तिकमाह - यथेति ॥ २ ॥ त इह व्याघ्रो वा सिहो वा वृको वा वराहो वा कीटो वा पतङ्गने वा दश्शो वा मराको वा ययद्भ- वन्ति तदाभवन्ति ॥ ३ ॥ यस्माच्चैवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते । अतस्त इह लोके यत्कर्मनिमित्तां यां यां जाति प्रतिपन्ना आसुर्व्याघ्रादीनां व्याघ्रोऽहं अपि सिंहोऽहमित्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः संत्प्रविष्टा १ ख. ञ. सौम्येमाः । २ ड ढ. °स्य जन्मदेव वृ । ३ ठ . °ति चामुष्यणहर्जुनस्य धवस्य वा वृक्षस्य रसोऽस्मीति । य° । क. ग. ड. ढ. °ति च । य° । ४ च. ठ. 'तनव' । `त्रो न । ७ ख, ङ. ञ. सौम्बेमाः । ५ ग. च. च. ट. ड. ढ. "कबोधो भ° । ६ क. ग.ट. ८. च. 'पुतिका' । ९ ख, ग, घ ङ. ण. सत्प्रतिष्ठा ।